SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ३०/श्रीचतुर्विंशति-जिनस्तुतयः असकृज्जन्मान इत्यर्थः / वासवः इन्द्रः / असास्नासिषुः पुनः पुनरतिशयेन वा असिस्नपन्निति स्नाधातोर्यकु लुपि द्वित्वे पूर्वस्यानादिलोपे ह्रस्वत्वे आत्वे च सास्ना इत्यवस्थायां णिचि "अति री" 4 / 2 / 21 // इत्यादिना प्वन्तत्वे "ज्वल ह्वल-" 4 / 2 / 32 / / इत्यादिना ह्रस्वत्वविकल्पे अद्यतन्यामनि तस्य "णिश्रि-" 3 / 4157 // इति डे णिलोपे असास्नापन् इत्येव साधुः ण्यन्तातु सिजअभावादिति असास्नापिषुरिति प्रयोगश्चिन्त्य एव, स्नपिता अभूचरित्यर्थः / यद्वा-असास्नासिषुरिति पाठः, अत्र च असास्ना अनित्यवस्थायां सिचि, अनः पुसि “यमिरभि" 414187 / / इति इटि सत्वे च षत्वे च असास्नासिषुः, सकारस्य रुत्वविसगौं / तु-पुनः / स्वर्णाद्रौ-मेरो। मेरौ स्नपिता इत्यन्वयो वा बोध्यः / स्वसांव्वत्सरै:-निजसंवत्सरभवैः / दान:-वितरणैः / त्रिजगती:-त्रिभूवनानि / अपरीपरु:-पुनः पुनरतिशयेन वा अपिपरुरिति पृ धातोर्यडि. लुपि द्वित्वे पूर्वस्य अत्वे री इत्यन्तागमे च परी पृ इत्यवस्थायां ह्यस्तन्यामन्ति अडागमे अपरी पृ अनित्यवस्थायां "व्युक्त जक्षपञ्चत:-" 4 / 2 / 93 // इति पुसि "पुस्यौ" 4 / 3 / 78 / / इति गुणे अपरीपरुः अवरीभरुः / तथा, ज्ञानम्-केवललक्षणम् / लब्ध्वा सम्प्राप्य अनन्तसौख्याम्-अनन्तमपरिमितं सौख्यं यत्र तान्तथा सकलसुखपूर्णाम् / शिवपुरीम् मोक्षनगरीम् / अजङ्गमुः-पुनः पुनरगच्छन्निति गम् धातोर्यङ् लुपि द्वित्वे पूर्वस्यमान्तत्वे मकारस्य ङकारे जङ्गम् इत्यवस्थायां ह्यस्तन्या मनि पुसि अडागमे सकारस्य रुत्वविसर्गयोरजङ्गमुः अयायुः ते-तादृशाः जिनाः सर्वज्ञाः / पुण्योद्भवैः सुकृतप्रभवैः / स्वविभवैः निजप्रभावैः / मुनीन् यतीन् / श्रीसद्धान्-श्रीसमितीश्च / अभिपतु:-पुनः पुनरतिशयेन वा अभिपिप्रतु इति, पृ धातोरभिपूर्वाद् यङ् लुपि द्वित्वे पूर्वस्य अत्वे रन्तत्वे अभिपर्प इत्यवस्थायामन्तु प्रत्यये न लुकि रेफादेशे अभिपतु वतु // 26 // TETTE या मध्ये सदसं जिनैस्त्रिपदिकादीपी स्म राराज्यते, भास्यन्ते स्म ततोऽपि पूर्वसमयोद्दीपा गणीन्द्रः परैः / देदीपीति ततोऽपि भासितजगत्सिद्धान्तदीपोऽर्कवत्, विश्वान्धकरणं तमोऽप्यपहरन भूयात् स सङ्घः श्रिये // अन्वयः - मध्येसदसम्, या, त्रिपदिकादीपी, जिनः, राराज्यते स्म, P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy