SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्विंशति-जिनस्तुतयः /29 वृत्तिः - एवम् पूर्वोक्तप्रकारेण / रत्नत्रयीनन्दिताः ज्ञानादित्रयीनन्दिता: भुवनत्रयीविख्याता वा / वृषभादयः आदिनाथादयः / जिनचतुविशा:-जिना:-सर्वज्ञाश्च ते चतुविशास्ते तथा, चतुर्विशतिजिनेश्वराः / लक्ष्मीसागरसूरिराजपनिता:-लक्ष्मीसागरा: श्रीसमुदाये सूरयः आचार्या राजानश्चन्द्रास्तैः, लक्ष्मीसागरनामसूरिश्रेष्ठश्च पनिताः स्तुताः / प्रवावन्दिता:-पुनः पुनरतिशयेन वा प्रवन्दिताः इति प्रपूर्वाद् वन्द्धातोर्यङि लुपि द्वित्वे पूर्वस्य आत्वे प्रवावन्द् इत्यवस्थायां कर्मणि भूते क्त प्रत्यये इटि प्रवावन्दिताः प्रणंनमिताश्च / ते-तादृशा जिनाः / जिनमण्डनाः सर्वज्ञश्रेष्ठाः , तदाख्या गुरवश्च / सर्वनिवृतिसुखै:-सकलमोक्षसुखैः सर्वायसंविच्छ्यि:-सर्वा:-आयो यशः संविद् ज्ञानं श्रियः सम्पदः येषान्ते / यद्वा मम यशोज्ञानसम्पदः / देदीपतु-पुनः पुनरतिशयेन वा दीप्यन्तामिति दीप् धातोर्यङि लुपि द्वित्वे पूर्वस्य गुणे देदीप् इत्यवस्थायां प्रार्थनायामन्तु प्रत्यये नलुकि देदीपतु दोद्योततु / उच्चैः श्रियः उच्चैः श्रीर्यासु तास्तथा / ममोच्चैरुत्तमा लक्ष्मीर्वा / शिवपुरः कल्याणग्रामाः / मोक्षस्थानञ्च / पोपूरतु-पुनः पुनरतिशयेन वा पूर्यन्तामिति पूर धातोर्यङ् लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे गुणे च पोपूर इत्यवस्थायां प्रार्थनायामन्तु प्रत्यये न लुकि पोपूरतु वरीवृधतु // 25 // इति पृथक् चतुर्विंशतिजिनस्तवनं नमस्काराश्च // 25 // प्रागैरावतभारतैकजनुषोऽसास्नापिषुर्वासवैः, स्वर्णाद्रौ त्वपरीपरुस्त्रिजगतीर्दानैः स्वसांवत्सरैः / लब्ध्वा ज्ञानमजङ्गमः शिवपुरी येऽनन्तसौख्यां मुनीन्, श्रीसङ्घानभिपतुस्वविभवैः पुण्योद्भवैस्ते जिनाः // 26 // अन्वयः - ये, प्रागैरावतभारतैकजनुषः, वासवैः, अस्नापिषुः, तु, स्वर्णाद्रौ, स्वसाँव्वत्सरैः, दानैः, त्रिजगती:, अपरीपरुः, ज्ञानम्, लब्ध्वा, अनन्तसौख्याम्, शिवपुरीम्, अजङ्गमुः, ते, जिनाः, मुनीन्, श्रीसङ्घान्, पुण्योद्भवैः, स्वविभवैः, अभिपतु // 26 // वृत्तिः - ये-यादृशा यावन्तो वा। प्रागैरावतभारतैकजनुषः-प्रागैवताख्यं यद्भारतखण्डम्, तत्रैकमद्वितीयं जनुर्जन्म येषान्ते तथा। P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy