SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ २८/श्रीचतुर्विंशति-जिनस्तुतयः मूर्तिम्-विम्वम् / वीक्ष्य-अवलोक्य / प्रभावत्याद्या इव-प्रभावतीनामराश्या तुल्याः / ये-यादृशा जनाः / मामदति स्म--पुनः पुनरतिशयेन वा माद्यति स्मेति मद्धातोर्यङि लुपि द्वित्वे पूर्वस्य आत्वे मामद् इत्यवस्थायां वर्तमानायामन्ति प्रत्यये नलुकि मामदति स्म-जाहृषति स्म / हि पादपूरणे तान्-तादृशान् / देवर्द्धयः--देवसम्पद: सिद्धयः--मोक्षादिलक्षणाश्च / परीप्रति--पुन: पुनरतिशयेन वा पिप्रतीति पृ धातोर्यङि लुपि द्वित्वे पूर्वस्य अत्वे रि इत्यागमे च परि पृ इत्यवस्थायां वर्तमानायामन्ति प्रत्यये नलुपि रेफादेशे परिप्रति--रारंक्षति, ते दद्धिसिद्धयादीन् लभन्ते इत्यर्थः / तथा, येन--भवता / बलात्-प्रसह्य / हरि:-सिंहः / अजायि--जीयते स्म / जि-- धातोः कर्मण्यद्यतन्यां ते "भावकर्मणोः 3 / 4 / 68 // इति णिचि न लुकि च वृद्धाचादेशे अजायि--पराभावि। अस्यै सिंहजेता। इह--अत्र / महावीरः-- महांश्चासौ वीर इत्यन्वर्थः श्रेष्ठवीरः / वरीवर्ति--पुनः पुनरतिशयेन वा वर्तते इति वृत् धातोयंङि लुपि द्वित्वे पूर्वस्य अत्वे री इत्यागमे च वरीवृत्' इत्यवस्थायां वर्तमानायां तिवि ईदागमविकल्पपक्षे गुणे वरीवर्ति-- वेविदीति / सिंहाभिभवात् महावीर इति नामाख्यात इत्यर्थः / तथा, सिंहः मृगपति:-अङ्कमिषात् चिह्नव्याजात् / यम्-यादृशम् / नृसिंहम्--पुरुषश्रेष्ठम् / अभजत् आश्रयत् / पराजितो हि सेवको भवतीति भावः / सः इति लभ्यते / श्रीवर्धमानः--तन्नामा तीर्थकृत् लिपे--मुक्तिलक्ष्म्यै भवत्विति शेषः / अत्र अङ्कमिवाक् भजने 'अजायि' इत्यस्य हेतुत्वेनानुसन्धानात्काव्यलिङ्गम् तच्चाङ्क मिषादित्यपह्लतिसङ्कीर्णम् // 24 // एवं ये वृषभादयो जिन चतुर्विशाः प्रवावन्दिता, लक्ष्मीसागरसूरिराजपनिता रत्नत्रयीनन्दिताः / ते देदीपतु सार्वनिर्वृतिसुखैः सर्वाय संविच्छ्यिः , श्रीमन्तो जिनमण्डनाः शिवपुरः पोपूरतूच्चैः श्रियः // 25 // अन्वयः - एवम्, ये, वृषभादयः, जिनचतुविशाः, रत्नत्रयीनन्दिताः, लक्ष्मीसागरसूरिराजपनिताः, प्रवावन्दिताः, ते, श्रीमन्तः, जिनमण्डनाः, सार्वनिवृतिसुखैः, सर्वाय संविच्छ्यिः , देदीपतु, उच्चैः श्रियः, शिवपुरः. पोपूरतु // 25 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy