SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्विंशति-जिनस्तुतयः/२७ वृत्तिः - ईश !-प्रभो!। ये-यादृशा जनाः / सच्छ्येि -उत्तम लक्ष्म्यै / सुमनसाम्-पुष्पाणाम् / भङ्गया--रचनयैव, ते-तव / मूर्तिम्-विम्बम् यायजति-पुन: पुनरतिशयेन वा यजन्तीति यज् धातोर्यङि लुपि द्वित्वे पूर्वस्य आत्वे यायज् इत्यवस्थायां वर्तमानायामन्तिप्रत्यये न लुकि यायजति पोपूजयन्ति / ते-तादृशा अङ्गिन:-प्राणिनः / देपालवत्--देपाल इव / राज्यविभवः राज्यसम्पद्भिः / सहेति शेषः / नूनम्-निश्चितम् / याय-- जति-सङ्गतिं चरीक्रति / राज्यविभवं प्राप्नोतीत्यर्थः। वा-समुच्चये। ये-यादृशाः / यस्य-यादृशस्य / ते-तव / शिविन:-सिद्धिरतः / इद्धमन्त्रमणिवत्--दीप्तमन्त्रमणितुल्यानि / नामानि-अभिधेयानि। जाजपति-भृशं-- जपन्ति / अत्र जप् धातोर्गीयामेव “गृलप्" 314112 // इत्यादिना यविधानाज्जाजपतीति प्रयोगश्चिन्त्य एव / यड्.ोऽभावे यङलुपो गगनकुसुमायमानत्वात, अतः प्रक्रिया न दशिता / किञ्च यद्यपि मान्तत्वे जाजपतीति सर्वथा दुर्लभमेवेति / अहो इति कोमलामन्त्रणे / स:-जादृशः / श्रीपार्श्वनाथ:-तदाख्यस्त्रयोविंशस्तीर्थकृत् / न:-अस्माकम् / सकलान्-सर्वान् / गुणान्-धर्मान् / पापूर्यात्-पुनः पुनरतिशयेन वा पूर्यादिति पृ धातोर्यड्. लुपि द्वित्वे पूर्वस्य अत्वे आत्वे च पाप इत्यवस्थायां प्रार्थनायां यात् प्रत्यये "ओष्ठ्यादुर" 4 / 4 / 118 // इत्युरादेशे "भ्वादेनीमिनः" 2 / 1 / 63 / / इति दीर्घ पापूर्यात् परिप्रियात् // 23 // मूर्ति मामदति स्म वीक्ष्य जिन ते देवाधिदेव प्रभावत्याद्या इव ये परिप्रति हितान् देवर्द्धयः सिद्धयः। येनाजायि हरिर्बलादिह महावीरो वरीवर्त्यसौ, यं सिंहोऽङ्कमिषान्नृसिंहमभजच्छीवर्धमानः श्रिये // 24 // अन्वयः - जिन ! देवाधिदेव ! ते, मूर्तिम, वीक्ष्य, प्रभावत्याद्या, इव ये, मामदति स्म, ता, हि, देवद्धयः, सिद्धयः, परिप्रति, येन, बलात्, हरिः, अजायि, असौ, महावीरः, इह, वरीवर्ति, सिंहः, अङ्कमिषात्, यम्, नृसिंहम्, अभजत्, श्रीवर्धमानः, श्रिये // 24 // वृत्तिः - जिन ! सर्वज्ञ ! देवाधिदेव ! सुराधिनाथ ! ते-तव / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy