SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ २६/श्रीचतुर्विंशति-जिनस्तुतयः वृत्तिः - यक्षेषु-द्वे अक्षे इन्द्रिये येषां ते द्वयक्षास्तेषु / प्रभुतास्वामित्वम् / शिरोवहनता-शिरोधार्यत्वञ्च / मे-मम / अवोभवीत्पुनः पुनरतिशयेन वाऽभवदिति भूधातोर्यङि लुपि द्वित्वे पूर्वस्य तृतीयत्वे ह्रस्वत्वे गुणे च वोभू इत्यवस्थायां ह्यस्तन्यां दिवि ईदागमे गुणे अवादेशे अटि अवोभवीत्-अवोभूत् / विभवात्-त्वत्प्रभावात् / दक्षिणावर्ताऽऽख्या दक्षिणावर्त इति नामापि / वरीवृतीति-पुनः पुनरतिशयेन वा वर्तते इति वृत् धातोर्यङ्गि लुपि द्वित्वे पूर्वस्य अत्वे री इत्यागमे च वरीवृत् इत्यवस्थायां वर्तमानायां तिवि ईदागमे गुणनिषेधे च वरीवृतीति-वेविदीति / अनन्तरम् ते तव / पुरः अग्रे / शाश्वती:-नित्याः / शङ्खश्रियः-सुखविज्ञा नानन्तलक्षणाः सम्पदः / याचितुम्-प्राथितुम् / यस्याम्-दक्षिणावर्ताऽऽ चिह्नभूतः कम्बुः / ताम्-प्रसिद्धाम्, दक्षिणावर्ताख्याम् / वाभक्ति-पुनः पुनरतिशयेन वा भजते इति भज् धातोर्यङि लुपि द्वित्वे पूर्वस्य तृतीयत्वे आत्वे च वाभज् इत्यवस्थायां वर्तमानायां तिवि ईदागम-विकल्पपक्षे 'अघोषे प्रथमः' 1 // 3 // 50 // इति प्रथमत्वे वाभक्ति-सेसेवीत् / सः-तादृशः / श्रीनेमिजिन:-श्रीनेमिनामा तीर्थकृत् / नः अस्मान् / तात्रेतु तात्रेतु-पुनः पुनरतिशयेन वा त्रायतामिति, यङ लुवन्तत्वादेवाऽऽभीक्ष्ण्यावगमे द्विरुक्तिर्भत्क्यादृतिजनितेति न दोषः / कृतात्वात् त्राधातोर्यङि लुपि द्वित्वे पूर्वस्यानादिलोपे ह्रस्वत्वे आत्वे च तात्रा इत्यवस्थायां प्रार्थनायां तुवि ईदागमे गुणे च तात्रेतु-रारक्षीतु / अत्राचेतने याचनादिरूप-चेतनधर्मसमारोपादतिशयोक्तिः / / 22 / / . मूर्ति यायजतीश ! ते सुमनसां भङ्गयेव ये सच्छ्येि , नूनं यायजतीह राज्यविभवैर्देपालवत्तऽङ्गिनः / ये वा जाजपतीद्धमन्त्रमणिवत्त यस्य नामान्यहो, पापूर्याच्छिविनो गुणांश्च सकलान् श्रीपार्श्वनाथः स नः॥ / अन्वयः - ईश ! , ये, सच्छ्येि , सुमनसाम्, भङ्गयेव, ते, मूर्तिम्, यायजति, ते, अङ्गिन:, देपालवत्, इह, राज्यविभवः, नूनम्, यायजति, ये, वा, इद्धमन्त्रमणिवत् यस्य, ते, शिविनः, नामानि, जाजपति, अहो, सः, श्रीपार्श्वनाथः, सकलान्, गुणांश्च, नः, पापूर्यात् // 23 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy