________________ श्रीचतुर्विंशति-जिनस्तुतयः/२५ वृत्तिः - विभो !-सर्वलोकव्यापक जिनेश्वरप्रभो ! ये यादृशाः जनाः / ते-तव / धर्मतत्त्वकृतये धर्मस्य सुकृतस्य, तत्त्वं याथार्थ्यं धर्मतत्त्वम् तस्य या कृतिः अहिंसादि-पञ्चमहाव्रतपालनक्रिया सा धर्मतत्त्वकृतिस्तस्यै तथा, तामुद्दिश्य, शैवर्द्धये शैव्य: मोक्षलक्षणा मोक्षसम्वन्धिन्यो वा या ऋद्धयः सम्पदस्ता उद्दिश्य च, शाशङ्कति-पुनः पुनरतिशयेन. वा शङ्कते इत्युदित्वात्सनन्ताच्छङ्क धातोर्यङि लुपि द्वित्वे.. पूर्वस्याऽऽत्वे शाशङ्क इत्यवस्थायां वर्तमानायामन्ति प्रत्यये न लुकि शाशङ्कति-सन्देदिहति / ते-तादृशाः / हिः पादपूरणे / अङ्गिनः प्राणिनः / चार्वाकवत्-चाकि इव / तस्य नास्तिकत्वादिति भावः / त्वद्विभवाशङ्कितोऽपि नास्तिका एवेत्यत:-सप्त-सप्त सङ्ख्याकानपि तपनादिलक्षणान् / नरकाद-निरयान् प्रालोलोकति-पूनः पुनरतिशयेन वा प्रालोकन्ते इति प्र: आपूर्वकाल्लोक धातोर्यङि लुपि द्वित्वे पूर्वस्य हस्वत्वे गुणे च प्रालोलोक् . इत्यवस्थायां वर्तमानायामन्ति प्रत्यये न लुकि प्रालोलोकति-प्रदरीदर्शति / नारकीयदुःखानि वोभुजतीत्यर्थः / तथा, ये यादृशा जनाः / यम्-यादृशम् / नमिम् तदाख्यतीर्थङ्करम् / सुरेन्द्रादिवत्-सुरेन्द्रादय इव / नवनवै:-नवप्रकारैः। स्तोत्रैः स्तवैः / शाशंसति-पुनः पुनरतिशयेन वा शंसन्तीति शंस् धातोर्यङि लुपि द्वित्वे पूर्वस्य आत्वे शाशंस इत्यवस्थाया वर्तमानायामन्ति प्रत्यये न लुकि शाशंसति तोष्टुवति / तेषाम्-तादृशानां-स्तोतृणाम् / रिपून-कामादिद्विषः / ते-तव / सर्वे-समेऽपि / अतिशयाः अलौकिकविशेषभावाः / किन्नु-कथम् / नो-न / शाशंसतु-जड्.घ्नन्तु / अपित जेहिंसत्वेव / त्वत्स्तोतृणां समे द्विषो विनश्यन्तीत्यर्थः // 21 // TraiTILLI द्वयक्षेषु प्रभुता शिरोवहनता मेऽबोभवीद् दक्षिणा-, वर्ताख्यापि वरीवरीति विभवाच्छङ्खोऽपि बाभक्ति ताम् / यस्यां किं किल याचितुतव पुरः शङ्खश्रियः शाश्वतीः, स श्रीनेमिजिनः प्रणम्रभुवनस्तात्रेतु तात्रेतु नः // 22 // 41 - अन्वयः - द्वयक्षेषु, शिरोवहनता, मे, अबोभवीत्, विभवान, दक्षिणावर्ताऽऽख्याऽपि, वरीवृतीति, तव, पुरः, शाश्वती:, शङ्खश्रियः, याचितुम्, यस्याम्, किल ताम्, शङ्खोऽपि, वाभक्ति, सः, प्रणम्रभुवनः, श्रीनेमिजिनः, नः, तात्रेतु, तात्रेतु // 22 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust