________________ २४/श्रीचतुर्विंशति-जिनस्तुतयः नीति यावत्, तानि तथा / निदन्दहीति--पुनः पुनरतिशयेन वा दहते इति निपूर्वाद् दह धातोर्यङि लुपि द्वित्वे "जपजभ" इति पूर्वस्य मान्तत्वे मकारस्य नकारे निदन्दह इत्यवस्थायां वर्तमानायां तिबि ईदागमे निदन्दहीति भस्मीचरिकरीति / सः-तादृशो जनः / वधिष्णुभिः-वर्धमानैः / रामवत् रामतुल्यैः / विभवः सम्पद्भिः / इन्द्रादीनपि शक्रप्रभृतीन् खलु / अन्येषां का कथेति भावः / जाहसीति-पुनः पुनरतिशयेन वा हसतीति हस् धातो र्यङि लुपि द्वित्वे पूर्वहकारस्य जकारादेशे आत्वे च जाहस इत्यवस्थायां . वर्तमानायां तिबि ईदागमे जाहसीति तिरश्चरीकरीति, इन्द्रादप्यधिकलक्ष्मीको भवतीत्यर्थः / तथा, यस्य यादृशस्य जिनेश्वरस्य। अघ्रिद्वितयी अज्रयोश्चरणयोद्वितयी द्वयी अङ्घ्रिद्वयी-पादद्वयमित्यर्थः / सीतेन्द्रवत्-सीतेन्द्र इव / सुमनसाम्-देवानाम् / मुदम्-हर्षम् / लालेति-- पुनः पुनरतिशयेन लातीति लाधातोर्यङि लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे आत्वे च लाला इत्यवस्थायां वर्तमानायां तिवि ईदागमे एदादेशे लालेति स्वीचरीकति / यत्पादद्वयमवलोक्य सर्वे देवा मोदन्ते इत्यर्थः / सः-तादृशः श्रीमान्-श्रीसम्पन्नः / मुनिसुव्रत:-मुनिसुव्रतनामा जिनेश्वरः / नः--अस्माकम् / जनितते:--जन्मपरम्परायाः / आर्तितः पीडातः। जोगुपीतु-पुनः पुनरतिशयेन वा गोपायतु--इति गुप् धातोर्यङि लुपिद्वित्वे पूर्वंगकारस्य जकारे गुणे च जोगुप् इत्यवस्थायामनुवन्धनिर्देशादायप्रत्ययाभावे ईदागमे "द्वयुक्तोपान्त्यस्य-" 4 / 3 / 14 // इति गुणाभावे जोगुपीतु / उपमालङ्कारः “साम्यं वाच्यमवैधयें वाक्यैक्य. उपमाद्वयोः" इति साहित्यदर्पणे विश्वनाथेन तल्लक्षणमभाणि // 20 // ये शाशङ्कति धर्मतत्त्वकृतये शैवर्द्धये ते विभोः, प्रालोलोकति तेऽङ्गिनो हि नरकान् सप्तापि चार्वाकवत् / ये शाशंसति यं नमि नवनवैः स्तोत्रैः सुरेन्द्रादिवत्, ते शाशंसतु किं नु नो अतिशयाः सर्वेऽपि तेषां रिपून् // अन्वयः - विभो ! , ये, ते, धर्मतत्त्वकृतये, शैवर्द्ध ये शाशङ्कति, ते, हि, अङ्गिनः, चार्वाकवत्, सप्तापि नरकान्, प्रालोलोकति, ये, यम्, नमिम्, सुरेन्द्रादिवत्, नवनवैः, स्तोत्र, शाशंसति, तेषाम्, रिपून्, . ते, सर्वेऽपि, अतिशया:, किन्नु, नो, शाशंसतु / / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust