SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्विंशति-जिनस्तुतयः/२३ यङि लुपि द्वित्वे अनादिलोपे पूर्वस्य ह्रस्वत्वे आत्वे च तात्रा इत्यवस्थामद्यतन्यामवि मध्ये सिजि "सिज्विदोऽभुव:-" इति पुसि “यमिरमि" ... 4.4 / 87 // इतीटि. सोऽन्तत्वे च "नाभ्यन्तस्था” 2 / 3 / 15 / / इति षत्वे स कारस्य रुत्वविसर्गयो:- अतात्रासिषुः अदादासिषुः / ते तादृशाः / त्वन्मित्र वत्-भवन्मित्रमिव / तान्-प्रसिद्धान् / इन्द्रनिकरांन्-इन्द्रसमूहान् / प्रति .: प्रतिगताः / स्वःश्रियः-स्वर्गलक्ष्मीः इन्द्रलक्ष्मीरित्यर्थः / डोढौकतु-पुनः पुनरतिशयेन वा ढौकन्तामिति ढौक्.धातोर्यङि लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे तृतीयत्वे च गुणे डोढौक इत्यवस्थायां विधावन्तु प्रत्यये न लुकि डोढौकतुतोत्रौकतु / श्रीमल्लीजिन ! श्रीमल्लिनाथ जिननायक ! यस्य--यादशस्य ते-भवतः / पादपद्मयुगली पादपमानां चरणकमलानां युगली द्वयी पादपद्मयुगली, चरणकमलद्वयमित्यर्थः / अर्च्यते--पूज्यते / तानित्याक्षिप्यते / नः अस्मान् / अस्मदादीनित्यर्थः / स:--तादृशो.. भवान् / श्रीकुम्भभव:-श्रीकुम्भजन्मा / भवोदधिरजोभीम्योऽपि भवः संसार उदधिः सागर इवेति भवोदधिस्तस्मात् या रजः, रजःपरिमाणा स्वल्पतरा या भियो भीतयस्ताभ्योऽपि, अत्यल्पभयेभ्योऽपीत्यर्थः / पापेतु--पुनः पुनरतिशयेन वा पात्विति पाधातोर्यडिः लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे आत्वे च पापा इत्यवस्थायां प्रार्थनायां तुवि ईदागमे गुणे च पापेतु रारक्षीतु / / 19 / / कमैंधांसि निदन्दहीति जिन ! ते जापाग्निना दाववत्, सेन्द्रादीनपि जाजहीसि विभवैर्वधिष्णुभी रामवत् / यस्याङ्घ्रि द्वितयां मुदं सुमनसां लालेति सीतेन्द्रवत्, स श्रीमान् मुनिसुव्रतो जनितते! जोगुपीत्वातितः // अन्वयः - जिन ! ते, दाववत्, जापाग्निना, कमैधांसि, निदन्दहीति, सः, वर्धिष्णुभिः, रामवत् विभवः इन्द्रादीन्, * अपि, जाजहीसि, यस्य, अद्मिद्वितयी, सीतेन्द्रवत्, सुमनसाम्, मुदम्, लाले ति, सः, श्रीमान् मुनिसुव्रतः नः, जनिततेः, आर्तितः, जोगुपीतु / / .... वृत्तिः - जिन ! भगवन्नहन् ! ते तव / नाम्नः, यः; इति शेषः / .. दाववत् / दावाग्नितुल्येन / जापाग्निना जापो जपनमेव अग्निर्वह्निर्जापा ग्निस्तेन तथा / कमैधांसि--कर्माण्येव अदृष्टान्येव एधांसि दारूणि काष्ठा P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy