________________ २२/श्रीचतुर्विंशति-जिनस्तुतयः ग्रन्था मुनिमार्गस्तन्तथा / मुमुक्षपद्धतिमिति भावः / अजङ्घनीत्-पुनः . ' पुनरतिशयेन वा अहनु अगच्छदिति अजङ्घनी-अजङ्गमीत् / प्रक्रिया पूर्ववदेव / तस्येति- शेषः / येन-यत्प्रकारेण / भवता-त्वया। द्वधा द्विप्रकार , आभ्यन्तरो . बाह्यश्च / अरातिगण: कामादि-शत्रुकदम्बकम् / लक्ष धा लक्षप्रकारैः / नानाथ्यते-पुनः पुनरतिशयेन वा नाथ्यते इति नाथ् . धातोर्यङि लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे आत्वे च नानाथ / इत्यवस्थायां / कर्मगि वर्तमानायां ते प्रत्यये क्ये नानाध्यते उपतातप्यते / स इति यच्छवलादाक्षिप्यते / नन्द्यावर्तसुलाञ्छन:-नन्द्यावर्तः सुलाञ्छनं यस्य स तथा, नन्द्यावर्ताङ्कः / अक्षरधनः-अक्षरो मोक्ष एव धनं सम्पत्तिर्यस्य स तथा, ब्रह्मविभव इत्यर्थः / अर:-तदाख्यः / जिन:-तीर्थकृत् / नः-अस्मान् नानाथतु-पुनः पुनरतिशयेन वा नाथत्विति. 'नाथ' धातोर्यङि लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे आत्वे च नानाथ् इत्यवस्थायां वर्तमानायां तुवि प्रत्यये ईदागमविकल्पपक्षे "अघोषे प्रथमोऽशिट:--' 13 // 50 // इति प्रथमत्वे नानात्तु ऐश्वर्ययतु / रूपकोपमयोस्तिलतण्डुलवत् संसृष्टिः // 18 // येतात्रासिषुराशु भाविभविका याज्ञां शिरश्शेखरां, . ते डोढौकतु तान्प्रतीन्द्रनिकरांस्त्वन्मित्रवत् स्वश्रियः / / - श्रीमल्लोजिनपादपद्म युगली यैरर्च्यते यस्य ते, स श्रीकुम्भभवो भवोदधिरजोभीभ्योऽपि पापेतु नः // अन्वयः-ये, भाविभविकाः, शिरश्शेखराम, आज्ञाम, आशु, अतात्रासिषुः, ते, त्वन्मित्रवत्, तान्, इन्द्रनिकरान, प्रति, स्वश्रियः, डोढौकतु, श्रीमल्लीजिन ! यस्य, ते, पादपद्मयुगली, अच्यंते, नः, सः, श्रीकुम्भभवः, भवोदधिरजोभीभ्यः, अपि, पापेतु // 19 // वृत्तिः -ये-यादृशा जनाः / भाविभविका:-भाविनो भावनावन्तश्च ते भविका भव्या मोक्षगमनयोग्या इति यावत् भाविभविकाः / शिरश्शे- ... खराम्-शिरंस उत्तमाङ्गस्य शेखराम्-स्रग्रूपाम् / अत्र यद्यपि शेखर शब्दस्यैव शिरः स्रगित्यर्थस्तथापि विशेषण--समवधाने विशिष्टवाचकपदस्य विशेष्यमात्रपरत्वमिति / आज्ञाम्-निदेशम् / भवत इति शेषः / आशु झटिति / अतात्रासिषुः-युनः पुनरतिशयेन वा अत्रासत इति धातोरात्वे P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust