________________ अटि अवरिवृतीत्-व्यनाजरिहरीत् / सः-तादृशः / श्रीशान्ति-जिन:तदाख्यः षोडशस्तीर्थङ्करः / स्तुत:-नुतः / सन्, शाश्वतान् नित्यान् / इष्टार्थकान्-अभिलषितपदार्थान् / परीपरीतु-पुन: पुनरतिशयेन वा पिपत्त इति पृ धातोर्यङि लुपि द्वित्वे पूर्वस्य अत्वे रि इत्यन्तागमे परि पृ इत्यवस्थायां पञ्चम्यां तुवि ईदाग़मे. गुणे परीपरीतु-रारक्षीतु वरीभरीतु वा // 16 // ये श्वेतातपवारणोरुचमरैर्मामान्यते यः प्रभु· भव्याः पापुरतीशितुः पदमहो आरामशोभादिवत् / _ ये वा मोमुदति प्रवीक्ष्य भगवंस्ते तीर्थकृद् वैभवान्, स श्रीकुन्थुविभुर्नतामरविभुर्मामातु सौवाः श्रियः // 17 // अन्वयः - यः, यः, प्रभूः, श्वेतातपवारणोरु-चमरैः, मामन्यते, भव्याः, आरामशोभादिवत्, ईशितुः, पदम्, पापुरति, अहो भगवन् तीर्थकृत् ! ये, ते, वैभवान्, प्रवीक्ष्य, मोमुदति, सः, नतामरविभुः, श्रीकुन्थुविभुः, सौवाः, श्रियः, मामातु // . ...... / वृत्तिः - यः-यादृशैर्जनः / य:-प्रभूः-यादृशः स्वामी। श्वेतातप-- . वारणोरुचमरैः-आतपं सूर्यप्रखरकिरणसम्पर्कादिजनितसन्तापं वारयन्ति दूरीकुर्वन्तीति आतपवारणानि, श्वेतानि धवलानि आतपवारणानि छत्राणि च उरूणि महान्ति चामराणि वालव्यजनानि च श्वेतातपवारणोरुचराणि / तैस्तथा। मामान्यते-पुनः पुनरतिशयेन वा मान्यते इति माञ् धातोर्यङि लुपि द्वित्वे ह्रस्वत्वे पूर्वस्यात्वे मामान् इत्यवस्थायां वर्तमानायान्ते प्रत्यये मध्ये क्ये मामान्यते-पोपूज्यते / ते इत्याक्षिप्यते / भव्याः मोक्षगमनयोग्याः श्राद्धा: / : आरामशोभादिवत्-आरामशोभादिरिव / ईशितु:-जिनेश्वरस्य / पदम्-स्थानम्, मोक्षमित्यर्थः / पापुरति-पुनः पुनरतिशयेन वा पृणन्तीति पृ धातोर्यङि लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे आत्वे च दीर्घारत्वाद् दद्याद्यभावे आत्वे पापृ इत्यवस्थायां वर्तमानायामन्ति प्रत्यये नलुकि "शिदवित्-". 4 / 3 / 20 / / इति ङित्वे "ओष्ठ्यादुर"- 4 / 4 / 128 / / इत्युरादेशे पापुरति परिप्रति / अहो-आश्चर्यम् / भगवतो जिनवरस्य प्रभावः / भगवन्-ऐश्वर्यशालिन् ! तीर्थंकृत्-तीर्थकर ! ये-यादृशाः / ते - P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust