SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ .. .. .. . श्रीचतुर्विंशति-जिनस्तुतयः/१९ ... दुष्टानिष्टभरानिहाजरिहरीद् यः सौवजन्मक्षणे, हित्वा चाक्रिकसम्पदोऽप्यजरिगीदिद्धसंविच्चयः / निःश्रेयःसुखमाश्रियोऽवरिवृतीद् यश्चाचिरेयः प्रभुः, स श्रीशान्तिजिन ! स्तुतः परिपरीत्विष्टार्थकान् शाश्वतान् // अ स्वयः- यः, सौवजन्मक्षणे, इह, दुष्टानिष्टभरान्, अजरिहरीत्, इद्ध संविच्चयः, चाक्रिकसम्पदोऽपि, हित्वा निःश्रेयःसुखम्, अजरि- . गहात्, यश्च, आचिरेयः, प्रभः; आश्रियः, अवंरिवृतीत्, सः, श्रीशान्तिजिनः स्तुतः, शाश्वतान्, इष्टार्थकान्, परिपरीतु // 16 // वृत्तिः - यः-यत्प्रकारो भगवान जिनेश्वरः / सौवजन्मक्षणे: स्वस्येद साव तादृशं यज्जन्मक्षणमुत्पत्तिकालस्तस्मिन् तथा / इह-अस्मिन् ' . मत्यलोके / दुष्टानिष्टभरान-दुष्टा असन्त इत्यर्थः येऽनिष्टा अकल्याणकरा- ... स्तषी भरा अतिशयास्तान् / अजरिहरीत् पुनः पुनरतिशयेन वा अहरदितिधातोर्यङि लुपि द्वित्त्रे पूर्वस्य हकारस्य जत्वे रि इत्यागमे जरिह इत्यस्थायां ह्यस्तन्यां तिवि विभक्तौ ईदागमे गुणे च "अड्धातोरदिः", 14 / 29 / / इत्यति अजरिहरीत् अनानाशीत् / तथा इद्धसंविच्चय:-इद्धःप्रदीप्त: अविद्यादीनभिभूय शुद्धस्वरूपेणावस्थितः संविदां चितं / ज्ञानानामिति यावत् चयो राशिः समूह इति यावत् / स विशुद्धज्ञानसमुदयः .. सन् / चाक्रिकसम्पदः-चाक्रिकाणां चक्रवर्तिनाम्, सम्पदो लक्ष्मीश्चाक्रिकसम्पदस्तास्तथा, अपिस्तादृशसम्पदस्त्यागाशक्तत्वं . प्रतिपादयति / हित्वा-सन्त्यज्य / नि:श्रयःसुखम् मोक्षसुखम् ब्रह्मानन्दमिति यावत् / / अजरिगीत्-पुनः पुनरतिशयेन वाऽग्रहीदिति ग्रहधातोर्यङि लुपि "ग्रहवश्च-" 4 / 2 / 84 / इति वृति. द्वित्वे पूर्वस्य अत्वे रि इत्यन्ते जरिगृह. इत्यवस्थायामद्यतन्यां तिवि मध्ये सिजि 'स्ताद्याशितो' / 4 / 4 / 32 // तीटि "सः सिजस्तेर्दिश्यो-" 4 / 3165 / / इतीदागमे "इट ईति" 4 / 3 / 71 // ति सिज्लोपे दीर्घ उपान्त्यस्य गुणे अटि अजरिगीत-स्व्यचरिकार्षीत् / -श्च, आचिरेय:-अचिराया अपत्यं पूमानित्याचिरेयः श्रीशान्तिजिनः / भुः-समर्थः / आश्रियः-श्रियमभिव्याप्य, श्रीसमन्वित इत्यर्थः / अवरितीत्-पुनः पुनरतिशयेन वा अवर्ततेति वृत् धातोर्यङि लुपि द्वित्वे वस्य अत्वे रि इत्यन्ते वरिवृत् इत्यवस्थायां शस्तन्यां तिवि ईदागमे mmmmmmmm P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy