________________ १८/श्रीचतुर्विंशति-जिनस्तुतयः त्वन्नामाविरतं बरिभ्रति मनःपद्मेषु ये पद्मवत्, तेषां कीर्तिसुकेसरैश्च सुरभीचक्रेजवद्विष्टपम् / "ये लालम्भति मूर्तये सुमहनं श्रीसुव्रतेयोत्सुमैः, शक्राद्याश्च सदैव मामहति तांस्तान् धर्मनाथोऽवतात् // 15 * अन्वयः -ये, मनःपद्मषु, अविरतम, पद्मवत् त्वन्नाम, बरिभ्रति, तेषाम्, कीर्तिसुकेसरैश्च, अब्जवत्, विष्टपम्, सुरभीचक्रे, श्रीसुव्रतेय ! ये, मूर्तये, उत्सुमैः, सुमहनम्, लालम्भति, ताज, शक्रादयः, सदैव, मामहात, तान्, धर्मनाथः, अवतात् // 15 / / वृत्तिः -ये-यादृशा जनाः। मनःपद्मषु-मनश्चित्तमेव पद्म कमलम् तेषु / अविरतम्-अविश्रान्तम् / पद्मवत-पद्मरथनामनपतिरिव / त्वनाम - भवन्नामधेयम् / भ्रमरमिवेति ध्वनिः / वरिभ्रति-पुनः पुनरतिशयेन वा . विभ्रतीति भृधातोर्यङि लुपि द्वित्वे पूर्वस्य तृतीयत्वे रि इत्यागमे च वरिभ इत्यवस्थायां वर्तमानायामन्ति प्रत्यये न लुकि रेफादेशे च बरिभ्रति दरिध्रति / तेषाम्-तादृशानां जनानाम् / कीतिसुकेसरैश्च-कीर्तयो यशास्येव सुकेसरा: सुकिजल्काः कीतिसूकेसरास्तैस्तथा, च-पादपूतौ / अब्जवत् कमलवत् / विष्टपम् भुवनम् / “स्याल्लोको विष्टपं विश्वं भुवन जगती जगत्"- 6 // 1 // इत्यभिधानचिन्तामणिः / सुरभीचक्रे-सुरभीकृतमेव, कुर्वन्तीति किमु वक्तव्यमिति भावः / अत एव परोक्षासङ्गतिः। श्रीसुव्रतेय ! श्रीसुव्रताया अपत्यं पुमान् श्रीसूव्रतेयस्तदामन्त्रणे / ये-यादृशा मानवाः / मूर्तये-भवद्विम्बाय। उत्सुमैः-उद्बुद्ध: सम्यग् विकसितरित यावत् / सुमैः पुष्पैः प्रफुल्लप्रसूनैरित्यर्थः / सुमहनम्-सुपूजनम् / लालम्भात पुनः पुनरतिशयेन वा लभन्ते इति लभ धातोर्यङिः लुपि द्वित्वे आत्व लालभ् इत्यवस्थायां वर्तमानायामन्ति प्रत्यये नलुकि नान्तत्वे तस्य मादेशे लालम्भति चरीक्रति / तान्-तादृशान् जनान् / शकाद्याः इन्द्राद्याश्च / सदैव-सर्वदा खलु, सततमिति यावत / मामहति-पूनः पुनरतिशयेन वा महन्तीति मह धातोर्यङि लुपि द्वित्वे पूर्वस्य आत्वे मामह, इत्यवस्थाया वर्तमानायामन्ति प्रत्यये न लुकि मामहति-पोपूजति / तान्-तादृशान् पूजकजनान् / धर्मनाथः तदाख्यो जिनेश्वरः / अवतात्-रक्षतात्, रूपकोपमयोः संसृष्टि: / किञ्च नामधारणात्पूर्वमेव जगत्सुरभीकारोन्तयाकारणात्पूर्वमेव कार्यवर्णनादतिशयोक्तिः / / 15 / / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust