________________ .... श्रीचतुर्विंशति-जिनस्तुतयः/१७ तातक्षीति तपो-बहुप्रहरणद्वैधामितारातिकान्, स श्री विष्णुकुमारवच्छिवपदं जागेति ते ध्यानतः / यो वाऽनन्तवदादधाति सुमनःपूजां विभोभिल्लवत्, लालम्भीति सुवैभवं स. समयादल्पादनन्तेशितुः // 14 // अन्वयः - तपोवहप्रहरणैः, द्वधामितारातिका, तातक्षीति, सः, ते, ध्यानतः, श्रीविष्णुकुमारवत, शिवपदम्, जागेति, यो. .वा, अनन्तवत्, विभोः, सुमनःपूजाम्, आदधाति, सः, भिल्लवत्, अनन्तेशितुः, अल्पात, समयात्, सुवैभवम्, लालम्भीति // . ... ... ... वृत्तिः - तपो वहाहरण:-तपांस्येव वहप्रहरणानि नाना नानाविधानि चायुधानि तपो वहुप्रहरणानि, तैस्तथा / य इति पुरः स इति तच्छद्वाल्लभ्यते, यत्तदोनित्यसम्बन्धात् / द्वधामितारातिकान्-द्वधा द्विप्रकारा आन्तरा वाह्याश्च ये अमिता असङ्ख्याताः कुत्सिता अंरातयः शत्रवोऽरातिकास्तांस्तथा / तातोति-पुनः पुनरतिशयेन वा तक्ष्णोतीति तक्ष् धातोर्यङि लुपि द्वित्वे पूर्वस्यात्वे तातः / इत्यवस्थायां वर्तमानायां तिवि प्रत्यये ईदागमे तातक्षीति-पुनः पुनरतिशयेन तनयति / सः तादृशो मानवः / ते-तव / ध्यानत:-ध्यानात् / श्रीविष्णु कुमारवत्-श्रीविष्णुकुमार इव / शिवपदम्-मोक्षम् / जागेति-पुनः पुनरतिशयेन वा . गाते इति गा धातोर्यङि लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे "गहोर्ज:" 4 / 1 / 40 / / इति ज़ादेशे आत्वे जागा इत्यवस्थायां वर्तमानायां तिवि प्रत्यये ईदागमे “अवर्णस्येवो' 1 / 2 / 6 // इत्येदादेशे जागेति-यायेति / यः यादृशो जनः / वेति प्रकारान्तरे विभोः-प्रभोजिनस्येत्यर्थः / अनन्तंवत् अनन्त इव / सुमनःपूजाम्-सुमनोभिः पुष्पैः पूजाऽर्चा सुमनःपूजा तान्तथा / आदधाति-विदधाति / सः तादृशो जनः। अनन्तेशितु:-अनन्तोऽनन्ताख्यश्चासावीशिता शासिता चानन्तेशिता तस्य तथा, तत्सकाशादित्यर्थः / यद्वा-अनन्त ! ईशित ! इति सम्बोधनद्वयम् / अल्पात् स्तोकात्. / समयात्-कालात्, . अचिरादेवेत्यर्थः / भिल्लवत्-किरात इव / सुवैभवम् सुशोभनमैश्वर्यम् सुसम्पदमिति यावत् / लालम्भीति-पुनः पुनरतिशयेन वा लभते इति लभ धातोर्यङि लुपि. द्वित्वे पूर्वस्य आत्वे लालभ् इत्यवस्थायां वर्तमानायां तिवि प्रत्यये ईदागमे "लभः" 4 / 4 / 104 // इति नागमें "म्नां धुड वर्गे" / 3 / 39 / इति नकारस्य मकारे लालम्भीति-अधिजङ्गमीति // 14 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust