SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १६/श्रीचतुर्विशति-जिनस्तुतयः ... अन्वयः - ये, जैनेन्द्रशुद्धव्रतः, नैन्थ्यपदम् सरीसृपति, ईश ! ते, पुण्यविभवः, त्वत्प्राग्भवो मर्त्यवत्, स्वर्गम्, सेषिधति, कृतवर्मपुत्र ! यः, देवेन्द्र, नवनैः, विधा, वावन्द्यते सः, श्रेयोविमल:, विमल:, नः, अनिशम्, मुक्तः , श्रियः, ददातु / / : : वृत्तिः - ये-यादृशा जना: / जैनेन्द्रशुद्धवतै:-जैनेन्द्राणां जिनेश्वराणां यानि शुद्धानि शास्त्राचारादिपरिष्कृतानि व्रतानि तपांसि तैः / नैर्ग्रन्थ्यपदम्-ग्रन्थिबन्धनन्ततो निर्गतो निर्ग्रन्थिमुक्तस्तस्य भावो नैर्ग्रन्थ्यम् तस्य पदम्-मुक्तिस्तान्तथा, यद्वा निर्ग्रन्थो भिक्षुस्तस्य भावो नन्थ्यम्, तस्य पदं साधुत्वमित्यर्थः / सरीसृपति-पुनः पुनरतिशयेन वा सर्पन्तीति सृपधातो-- यडि लुकि द्वित्वे अत्वे पूर्वस्य री इत्यागमे सरीसृप इत्यवस्थायां वर्त-- मानायामन्ति, प्रत्यये न लुकि * सरीसृपति--जङ्गमति / ईश ! प्रभो ! / ते-- व्रतादिना मोक्षपदानुसारः / पुण्यविभवैः पुण्यस्य सुकृतस्य विभवाः प्रभावास्तैस्तथा / त्वत्प्राग्भवः-त्वं प्राग्भवो यस्य सः, प्राग्भवे त्वं सः, अत्र. भवे स त्वमित्यर्थः / मर्त्यवत्-मरणधर्मा मर्त्यस्तद्वतं, यथा त्वत्प्राग्भवो मा व्रतादिपुण्यप्रतापैः स्वर्गं गतास्तद्वत् सापेक्षत्वेऽपि गमकत्वाद् वृत्तिः / सहस्रारकल्पे महापुरीनगर्यां महासेनो नृपः सर्वगुरोः पावें दीक्षां लात्वा व्रतादिपुण्यप्रभावात् स्वर्ग जगामेत्यागमः / स्वर्गम्-सुरलोकम् / सेषिधति-पुनः पुनरतिशयेन वा सेधन्तीति सिध् धातोर्यङि लुपि द्वित्वे पूर्वस्य गुणे सेषिध् इत्यवस्थायां वर्तमानायामन्ति प्रत्यये न लुकि सेपिधति जङ्गमति / यः यादृशो भवान् / देवेन्द्र सुरेन्द्रः / नवनः-स्तवनैः-स्तुतिपूर्वकमित्यर्थः / त्रिधा-मनोवाक्कायैः / वावन्द्यते पुनः पुनरतिशयेन वा वन्द्यते इति उदित्वान्नान्ताद्-वन्द्धातोर्यङि लुपि द्वित्वे पूर्वस्य आत्वे वावन्द् इत्यवस्थायां कर्मणि वर्तमानायां ते प्रत्यये मध्ये क्ये - वावन्द्यते-- तोष्ट्रयते, अभिवावद्यते वा / सः-तादृशो भवान् / श्रेयो विमल:-श्रेयोभिरनन्तकल्याणगुणैविमलो निर्मल:, निर्मलानन्तकल्याणगुणवानित्यर्थः / विमल: श्रीविमलनाथनामा तीर्थपतिः / न:-अस्मभ्यम् / अनिशम्-अनारतम् / "अनारतं त्वविरतं संसक्तं सततानिशम् / नित्यानवरताजस्रासक्ताश्रान्तानि सन्ततम्" 6 / 107 / / इत्यभिधानचिन्तामणिः / मुक्त:--कैवल्यस्य श्रिय:--लक्ष्मीः / ददातु--वितरतु / / 13 / / P.P.AC. GunratnasuriM.S. : Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy