SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्विंशति-जिनस्तुतयः/१५ - वृत्तिः -ये-यादशा जनाः। श्रीवासुपूज्यम्-वसुपूज्यस्यापत्यं पुमान् वासुपूज्यस्तन्तथा / जिनम्-जिनेश्वरम्, सुमैः-पुष्पैः / सम्मामान्य-सम्पू-- वन्मिाज धातोर्यङि लुपि द्वित्वे ह्रस्वत्वे आत्वे सम्मामान् इत्यवस्थायां यपि सम्मामान्य सम्पोपूज्य प्रणोनुवति पुनः पुनरतिशयेन वा . प्रणुवन्तीनि प्रपूर्वाद् नु धातोर्यङि लुपि द्वित्वे पूर्वस्य गुणे णत्वे च प्रणोनु इत्यवस्थायां वर्तमानायामन्ति प्रत्यये न लुकि "धातोरवर्णो वर्णस्ये युन"२।११५०।। इत्युवि प्रणानुवति--प्रतोष्टुवति, ते-तादृशा जनाः / अविलात्-पूजाप्रभावात् / रोहिण्यादिकवत्-रोहिणी अदिर्येषान्ते रोहिण्यादिकास्त इव, रोहिण्यादिका यथाऽऽर्चावलात् मुक्तिमधिगता, तथा / शैवी: शिवस्य. मोक्षस्येमाः शैवी:, मोक्षसम्बन्धिनी: / श्रियः-लक्ष्मीः / प्रवाभजति-पुनः पुनरतिशयेन वा भजन्तीति प्रपूर्वाद् भज धातोर्यङि लुपि द्वित्वे : "द्वितीयतुर्यायोः पूवौं" 4 / 1 / 42 // इति तृतीये आत्वे च प्रवाभज् इत्यवस्थायां . वर्तमानायामन्ति प्रत्यये नलुकि प्रवाभजति-सेषेवति / . आशे श्रियतीति यावत् / किञ्च, ते-तादशा मानवाः पर्यन्याः मेघा इव / अतिरस:-प्रचुरानुरागैः, रस्यते इति रसः शब्दः, प्रचुरसाधूपदेशैरिति वार्थः / मेघ-पक्षे-प्रचुरजलैरित्यर्थः / सर्वाणि समग्राणि धान्यानि-धान्यपदस्योपचारांत् सम्पदः / मेघपक्षे शस्यानि / दाददति-पुनः पुनरतिशयेन वा ददन्ते इति 'दद धातोर्यङि लुपि द्वित्वे आत्वे दादद् इत्यवस्थायां वर्तमानायामन्ति प्रत्यये न लुकि दाददति-दादति, तथा, मार्तण्डा इव आदित्या इव / विश्वभव्यकमला--विश्वे विश्वान् वा भव्याः कमलानि इव तान्, सूर्यपक्षे विश्वे भव्यानि कमलानि, लिङ्ग व्यत्ययेनान्वयः / अन्वहम्-अहरहः / वोवोधयन्ति-पुनः पुनरतिशयेनः वा बोधयन्तीति बुध धातोर्यङि लुपि. द्वित्वे पूर्वस्य गुणे बोबुध इत्यवस्थायां णिचि "लघोरुपान्त्यस्य" 4 / 3 / 4 / / इति गुणे बोबोधि इत्यवस्थायां वर्तमानायामन्ति प्रत्यये मध्ये शवि "नामिनो गुणो" 4 / 2 / 4 / / इति गुणे अलुकि वोवोधयन्ति-शेशिक्षयन्ति / सूर्यपक्षे विचाकासयन्ति / रूपकश्लेषोपमासमुच्चयातिशयोक्तीनां सङ्करोऽलङ्कारः // 12 // ये नैर्ग्रन्थ्यपदं सरीसृपति ते जैनेन्द्रशुद्धव्रतैः, . . स्वर्ग सेषिधतीश ! पुण्यविभवैस्त्वत्प्राग्भवो मर्त्यवत् / / देवेन्द्रैः कृतवर्मपुत्र ! नवनैर्वावन्द्यते यस्त्रिधा, स श्रेयो विमलो ददातु विमलो मुक्तः श्रियो नोऽनिशम् // P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy