SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ १४/श्रीचतुर्विंशति-जिनस्तुतयः / दीर्घ शेश्रियते सेसेव्यते / ते-तादृशा जनाः / निश्रेयस:-मोक्षात् / संभवाःसमुद्भवा उत्पन्ना इति यावत् / श्रेयोऽनन्तकलाः श्रेयसां कल्याणानां या अनन्ता अपरिमिताः कलाः गुणास्तास्तथा / दरिध्रति-पुन: पुनरतिशयेन वा धरन्तीति धृधातोर्यङि लुपि:द्वित्वे अत्वे पूर्वस्य रि इत्यागमे दरिधृ इत्यवस्थायां वर्तमानायामन्ति प्रत्यये 'अन्तो नो लुक्' 4 / 2 / 96 / / इति न * लुकि-"इवर्णादेरस्वे" 1 / 2 / 21 / / इति रादेशे :, दरिध्रति-बरिभ्रति / हि निश्चये / “हि हेताववधारणे" इत्यभिधानचिन्तामणिः / ये यादृशा जनाः / अन्ते-समीपे अन्तकाले वा / ते-तव / पञ्चपदीम् पञ्चावस्थाम्, . पञ्चकल्याणकम्, पञ्चनमस्कारमन्त्रं वा। सरिस्म्रति-पुनः पुनरतिशयेन वा स्मरन्तीति स्मृधातोर्यङ लुपि द्वित्वे अनादिलोपे अत्वे पूर्वस्य रि इत्यन्यागमे सरिस्मृ इत्यवस्थायाम् वर्तमानायामन्ते प्रत्यये न लुकि रेफादेशे सरिस्म्रति, चेचिन्तति / ते तु तादृशजनास्तु / शैवीम्-शिवं मोक्षस्तत्सम्बन्धिनीम् / रमाम् लक्ष्मीम् / यान्ति प्राप्नुवन्ति, आदरातिशये वहुवचनम् / ते-एतादृशाः / श्रीविष्णुभवा:-श्रीविष्णुसूनवः / श्रीश्रेयांसनाथाः। पुनरिति वाक्यालङ्कारे ते-तुभ्यञ्च / सम्पदाम्-लक्ष्मीणाम् / . आस्पदम्-स्थानमाकरमिति यावत् / विददातु-पुनः पुनरतिशयेन वा ददत्विति विपूर्वाद् दा धातोर्यङि लुपि पूर्वस्य ह्रस्वत्वे आत्वे च विदादा .. इत्यवस्थायां वर्तमानायामन्तु प्रत्यये न लुकि “इनश्चातः"- 4 / 2 / 96 // इत्याल्लुकि विदादतु-विदाददतु / "ते श्री विष्णुभवा. विदाददतु नस्ते" इत्येवं पाठपक्षे तु-नः, अस्मभ्यं तुभ्यञ्चेत्यर्थो वोध्यः // 11 // सम्मामान्य सुमैः प्रणोनुवति ये श्रीवासुपूज्यं जिनं, रोहिण्यादिकवत् प्रबाभजति ते शैवीः श्रियोऽर्चाबलात् / पर्यन्या इव दाददत्यतिरसैन्यानि सर्वाणि ते, मार्तण्डाः इव विश्वभव्यकमलान् बोबोधयन्त्यन्वहम् // 12 // अन्वयः - ये, श्रीवासुपूज्यम्, र्जिनम्, सुमैः, सम्मामान्य, प्रणोनु-- वति, ते, अर्चावलात्, रोहिण्यादिकवत्, शैवीः, श्रियः, प्रवाभजति, ते, पर्यन्या इव, अतिरसः, सर्वाणि, धान्यानि, दादंदति, मार्तण्डा इव,'अन्वहम् विश्वभव्य-कमलान्, बोवोधयन्ति // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy