________________ - श्रीचतुर्विंशति-जिनस्तुतयः/१३ कृत्वा, वितन्तन्यन्ते-पूनः पुनरतिशयेन बा वितायन्ते इति विपूर्वात् तन् वातायाङ लुपि द्वित्वे "मुरतोऽनुनासिकस्य"४॥५१॥ इति पूर्वस्य मान्तत्वे ता मुमौ व्यञ्जने रवौ"-१३।१४॥ इत्यनेन स्वानुनासिकत्वे वितन्तनित्यवस्थायां कर्मणि वर्तमानायामन्ते : प्रत्यये क्ये अलुकि "तनः क्ये"४।२।६३॥ इत्यात्वविकल्पात् वितन्तन्यन्ते-वितरीस्तीर्यन्ते / ते-तादृशा जनाः / अचले-न चलमचलम तस्मिन स्थायिनि, अविनश्वरे इत्यर्थः / शीतलपदे-शीतले सर्वोपाधिरहितत्वात शान्ते पदे स्थाने मोक्षे इत्यर्थः / एलेषमहिम्ना शीतलस्य तदाख्यतीर्थङ्करस्य पदे स्थाने' इत्यप्यूह यम् / जिनवत्-जिन इव / जिना यथा मोक्षं गच्छन्ति तथा। प्रसेसिध्यन्ते-पुनः पुनरतिशयेन वा प्रसेधन्तीति प्रपूर्वात् सिध् धातोर्यङि लुकि द्वित्वे पूर्वस्य गुणे प्रसे सिध्य इत्यवस्थायां वर्तमानायामन्ते प्रत्यये अलुकि "स्थासेनिसेध" // 3 // 40 // इति प्राप्तषत्वस्य "गतौ सेधः" 2 / 3 / 61 // इति निषेधात् प्रसेसिध्यन्ते / प्रजङ्गम्यन्ते। श्रीशीतलजिनस्तुतिकर्ता श्रीशीतलपदं मोक्षं गच्छतीति भावः // 10 // .. .. . LIMITED .. श्रीश्रेयांसजिनेन्द्रचन्द्रविभवः शेश्रीयते यैर्मुदा, .. श्रेयोऽनन्तकला दरिधति हिते निःश्रेयसः सम्भवः / .. तेऽन्ते पञ्चपदी सरिस्म्रति तु ते शैवीं रमा यान्ति ते, ते श्रीविष्णुभवा विदादतु पुनस्ते सम्पदामास्पदम् // 11 // - अन्वयः -यः, श्री श्रेयांसजिनेन्द्रचन्द्रविभवः, मुदा, शेश्रीयते, ते, हि, निःश्रेयसः, सम्भवाः, श्रेयोऽनन्तकला:, दरिधति, ये, अन्ते, ते, पञ्चपदीम्, सरिस्म्रति, ते, तु, शैवीम्, रमाम्, यान्ति, ते, श्रीविष्णुभवाः, पुनः, ते, सम्पदाम्, आस्पदम्, विदादतु // 11 // 1. वृत्तिः - यः, यादशैर्जनः / श्रीश्रेयांस-जिनेन्द्रचन्द्रविभवः जिनेन्द्रो जिनेश्वरश्चन्द्रश्चेति जिनेन्द्रचन्द्रः, जिनेन्द्रश्रेष्ठः श्रीश्रेयांसनामा जिनेन्द्रचन्द्रः श्रीश्रेयांसजिनेन्द्रचन्द्रः तस्य विभव ऐश्वर्यं सर्वोत्कृष्टदया-चारिव्यादि / मुदा हर्षेण / शेश्रीयते-पुन: पुनरतिशयेन वा . श्रीयते इति श्रिधातोर्यडि लुपि द्वित्वे अनादि लूपि पूर्वस्य गुणे शेश्रि इत्यवस्थायां कर्मणि वर्तमानायां न्ते प्रत्यये क्ये "दीर्घश्च्वियङ्यक् क्येषु च" 4 / 3 / 108 / इति P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust