SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् आत्मानं तरुशाखायामुद्बद्धुमनसोऽपरे । बबन्धुरुत्तरीयाणि, लीलादोलां यथा पुरा ॥ ६ ॥ शिरसोऽत्रोटयन् केsपि, केशान् क्षेत्रात्कुशानिव । केप्यंगानं नेपथ्यं, चिक्षिपुः स्वेदबिंदुवत् ॥ ७ ॥ हस्तन्यस्तकपोलाः केऽप्यस्थुश्चिन्तापरायणाः । प्रदत्तोत्तंभनस्तम्भजर्जराका रकुड्यवत् ॥ ८ ॥ असंवहन्तः केचिच्च, परिधानांशुकान्यपि । " विशंस्थुलाङ्गा व्यलुठन्नुन्मत्ता इव भूतले ॥ ९ ॥ विलापोऽन्त पुरे स्त्रीणां कुररीणामिवाम्बरे । हृदया कम्पजनकः, पृथक् पृथगभूदिति ॥ १० ॥ प्राणेशान् गृह्णतास्माकं प्राणानत्रैव मुञ्चता । किमधवैशसमिदं रे दैवाचरितं त्वया ? ॥। ११ ॥ प्रसीद विवरं देहि, स्फुटित्वा देवि ! काश्यपि ! | अभ्रादपि पतितानां शरणं धरणी खलु ॥ १२ ॥ अद्य चंदनगोधानामिवास्माकमुपर्यहो । विद्युद्दण्डमकाण्डेऽपि, दैव ! पातय निर्दयम् ॥ १३ ॥ प्राणाः ! शिवा वः पन्थानो, यूयं यात यथेप्सितम् । विमुञ्चतास्मच्छरीरमवक्रयकुटीमिव ॥ १४ ॥ समायाहिं महातन्द्रे, ! सर्वदुः खापनोदिनि ! । मन्दाकिनि ! त्वमुत्पत्य, जलमृत्युं प्रयच्छ वा ॥ १५ ॥ ५७. १ क्रीडादोलाम् । २ शिथिलाङ्गाः । ३ मृगीणाम् । ४ अर्धमरणम् । ५ हे पृथ्वि ! । ६ आकाशात् । ७. असमये । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy