SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् एवं भैमी विलपंती रुदंती नयनोदकैः ।। सारणीवारिभिरिव सिषेचारण्यपादपान् ॥ ५५६ ॥ जले स्थले वा छायायामातपे वा नल विनां । ज्वरातया इव तस्या न निवृतिलवोऽप्यभूत् ॥ ५५७ ॥ -त्रिषष्टिः प० ८, स० ३, पृ० ५९ । [३३] सगरचक्रवर्तिषष्टिसहस्रपुत्रणाां मरणेऽन्तःपुरस्त्रीणां सेनाधिपतिसामन्तादीनां च विलापाः । चक्रिसैन्येऽथ सैन्यानामाक्रन्द उदभून्महान् । महाजलाशय इव, रिक्तीभवति यादसाम् ॥ १ ॥ केऽप्यास्वादितकिम्पाका इव पीतविषा इव । सर्पदष्टा इवोन्मूर्छा, पेतुर्वसुमतीतले ॥ २ ॥ केचिदास्फालयामासुः, स्वशिरो नालिकेरवत् । केचिदाजनिरे वक्षः, कृतागस्कमिवासकृत् ॥ ३ ॥ पादान् प्रसार्य केऽप्यस्थुः, कृत्यमूढाः पुरन्ध्रिवत् । भृगूण्यारुरुहुर्झम्पां, कपिवत् केऽपि 'दित्सवः ॥ ४ ॥ कूष्माण्डदारमुदराण्येके स्वानि दिदीर्षवः । चकृषुः क्षुरिका कोशाद्यमजिह्वासहोदराम् ॥ ५॥ १ जलचरजीवानाम् । २ कृतापराधम् । ३ भृगुणि शिवराणि पर्वतात्पतनत्थानानीत्यर्थः । ४ दातुमिच्छवः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy