________________
हरिभद्राचार्यस्य
-
एतानुलेखान् पूर्वोक्तप्राकृतगाथानिर्दिष्टहरिभद्रस्वर्गगमन समयस्य बाधकत्वेन सूचयन्तः केसिद्धर्षि - हरिभद्रयोः समकालीनत्वम् - अर्थात् हरिभद्रं सिद्धर्वैः साक्षाद्गुरुत्वेनाऽऽ मनन्ति । डॉ. याकोबीमहाशयस्यापि इदमेव मतं सम्मतम् । एतन्मतं सविशेषं समर्थयितुं च तेन हरिभविरचितादेवैकस्माद् ग्रन्थात् कानिचिदान्तरप्रमाणान्यपि समुपस्थापितनि ।
तथाहि – षड्दर्शनसमुच्चयनामकमबन्धे हरिभद्रसूरिणा दिग्नागशाखीय बौद्धन्यायस्य संक्षेपेण करो दर्शितः । तत्र प्रत्यक्षप्रमाणस्य लक्षणमेवं प्रदर्शितमस्ति
' प्रत्यक्षं कल्पनापोढमभ्रान्तं तत्र बुध्यताम् ।
इदं च लक्षणं, न्यायबिन्दुगतेन आचार्यधर्मकीर्तिलक्षितेन प्रत्यक्षलक्षणेनाक्षरशः साम्यं भजति । बौद्धन्यायप्रतिष्ठापकाचार्यदिनागेन तु प्रमाणसमुच्चयादौ
"
' प्रत्यक्षं कल्पनापोढं नामज. त्याद्यसंयुतम् ।
इत्येवं प्रत्यक्षस्य लक्षणं विहितं दृश्यते । तत्र ' अभ्रान्तम् ' इति पदं न प्रयुक्तम् । इदं हि आवश्यक पदमाचार्य धर्मकीर्तिलक्षिते प्रत्यक्षलक्षणे संप्रा यते । अत एतद् ज्ञायते - हरिभद्रेणापि यदिदं 'अभ्रान्तम् ' पदं प्रत्यक्षलक्षणे निवेशितं तद् धर्मकीर्तेरेवानुकरणम् । धर्मकीर्तेः सत्तासमयः प्राकृतगाथादर्शित. द् हरिभद्रीयस्वर्गगमनसंवत्सरात् पश्चात् शताब्दीममाणं निश्चीयते पुराविद्भिः । अत एव धर्मकीर्तिलक्षित-त्यक्षलक्षणानुकरणकर्तुर्हरिभद्रस्य पूर्वोक्तगाथया सूचितः स्वर्गगमनसमयः-असम्बद्धः प्रतिभाति। एवमन्यान्यपीदृशानि कतिपयानि प्रमाणानि स्वमत समर्थनार्थ तेन विदुषा संसूचितानि सन्ति । डॉ. याकोबीमहाशयेनेत्थं हारेभद्रस्य धर्मकीर्त्यत्तरकालवर्तित्वं यदनुमितं तत्त्वस्मन्मतेनापि सत्यमेव । तो हरिभद्रेण न केवलं धर्मकीर्तिकृतं प्रत्यक्षलक्षणमेवानुकृतम्, किन्तु स्वकीयेषु अनेकान्तजयपताकादिग्रन्येषु धर्मकीर्तिकृतहेतुवेन्दुमभृतिभ्यो ग्रन्येभ्यः - अनेकान्यवतरणान्यपि समुद्धृनानि, असच्च तस्य महामतेन मिप्राहं निर्देशोऽपि कृतैः । परन्तु, नैतावतैव हेतुना सिद्धर्षि - हरिभद्रयोः समसमयवर्तित्वानुमानं वयं संमन्यामहे । यतः - अस्माभिरेकमेतादृशमपि निश्चितं प्रमाणनुपलब्धम्, यत् तयोः समसमयवर्तित्वसच कोल्लेखैः स्पष्टं विरोधमावहति ।
I
एव, डॉ. याकोबी मतेन सुनिश्चितेऽपि समये बलवतः सन्देहस्य समुत्पन्नत्वात् पुनरपि तन्निर्णया गवेषयितुमारब्धमस्माभिः । गवेषणान्ते च यो निष्कर्षः समुपलब्धः स एवाधुनाऽत्र विद्वत्समाजे सविस्तरं पुरस्क्रियते ।
तत्र, स्वगवेषणाफलभूत्वेन प्राप्तानि प्रमाणान्याश्रित्य हरिभद्रीयसत्तासमयविषये सविस्तरोपूर्व स्थिरीकर्तव्यस्य स्वाभिप्रायस्य वर्णनात् पूर्वं पाठकानां स्मृतिसौकर्यायाचैव तत्सारं संक्षिप्य निवेदयामः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३० उपमितिभवप्रपञ्चायाः कथायाः प्रस्तावनायां ( पृ० ८ द्रष्टव्यम् । ) ३१ अग्रे वक्ष्यमाणं दृष्टव्यम् ।
www.umaragyanbhandar.com