________________
समयनिर्णयः अनेन प्रमाणेन स्पष्टीभवति, यत्-बौद्धतार्किकेषु धर्मोत्तरनामानौ द्वौ विद्वांसावभूताम् । तत्र च न्यायबिन्दुटीकाकारोऽर्वाचीनः, अपरः प्राचीनः । सोऽपरः पुनर्विद्वत्सु 'वृद्धधर्मोत्तर' नाना प्रसिद्धोऽभूत् । अर्वाचीनो धर्मोत्तरोऽपि तस्यैवानुयायी आसीत् इति ।।
___ एवं सति, यदि तमेव वृद्धधर्मोत्तरं हरिभद्रनिर्दिष्टसूत्रकर्तृत्वेन सम्भावयामस्तर्हि नात्र काश्चिद. सङ्गातिमुत्पश्यामो वयम् ।
अपि च न्यायविन्दुटीकाकारधर्मोत्तरस्य हरिभद्रात् पूर्ववर्तित्वाभावेऽन्यत प्रमागमपि दरोहश्यते । यथा-धर्मोत्तरीयाया न्यायविन्दुटीकाया उपरि ' मलवादी' नानकेन जैनाचार्येण टिप्पणी लिखिता वर्तते । तस्याष्टिपण्या विलोकनेन ज्ञायते यम्-धर्मोत्तरेण स्वटोकायामनेकेषु स्थलेषु पूर्वटीकाकर्तुविनीतदेवस्य टीका दुषिता, खण्डिता चे । विनीतदेवस्य सत्तासमयः प्रत्नतत्त्वज्ञैः खु. ७०० निकटवर्ती संस्थाप्यते । १६ अतस्तत्कृतटीकाया दूषको धर्मोत्तरस्तस्मात् समयात् तु परवत्येक, इत्यत्र तु न कोऽपि विवदेत । एतादृश्यां स्थिती, कदाचित् स हरिभद्रसमसमयवर्ती मन्तुं शक्येत । परन्तु, तिब्बतीयेतिहासलेखकस्य तारानाथस्य यदिदं कथनम्-' आचार्यधर्मोत्तरः ' ८४७ वृष्टाब्द
(५) 'वृद्धसेवाप्रसिद्धोऽपि ब्रुबेन्नवं विशङ्कितः । बालबत्सादुपालभ्यविद्यविदुषामयम् ॥'
तथा हि-सोऽयं वृद्धधर्मोत्तरानुसार्यप्यलीकवाचालतया तुल्यस्वरूपयोरपि व्युत्पत्ति व्यवहारकालयोंरतुल्यतामुपकल्पयन् बाल इवैकामप्यागालं वेगवत्तया चळयन द्वयीकृत्य दर्शयतीत्येवमुपाल भ्यते
त्रविद्यकोविदैः।' (स्याद्वादरत्नाकरः, पृ०१२) (६)'यश्चावाचि "अत एवेत्यादि" तत्रायमाशयः, लक्ष्यं हि प्रसिद्धमनुवाद्यं भवतीत्यस्माद् भूतविभक्तो
द्वितीयाद्याः समुपादीयन्ते ' लक्षणं पुनरप्रसिद्धं विधेयमित्यतो भव्यविभक्तिः प्रथमैव प्रयुज्यत इति । सोऽयं साहित्यज्ञताभिमानात तत्र वृद्धधर्मोत्तरमधरयति, स्वयं त्वेवंब्याचष्टे इति किमन्यदस्थ देवानाप्रियस्य श्लाघनीयता प्रज्ञायाः।' (स्याद्वादरत्नाकरः, पृ० १३)
[मागील पानावरील टीप समाप्त.] ५४ इयं टिप्पणी सम्प्रति बिग्लिओथिका बुद्धिका ' नाम्न्यां प्रन्थमालायां ( रासियादशे ) मुव्यले
५५ टिप्पणीकारस्यैतदर्थसूचकानि कानिचिदाक्यानामानि(१) सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्यां दूषयति । ( पृ०३) (२) 'हेयोऽर्थ इत्यादिना विनीतदेवस्य व्याख्या दूषिता । ' ( पृ० १३) (३) उत्तरेण ग्रन्थेन 'सर्वशब्द ' इत्यादिना टीकाकृतां व्याख्यां दूषयति। विनीतदेव-शान्तभद्रा पाने.
वमाशङ्कय व्याख्यातम् ।' (पृ१३) ( ४ ( 'अनेन लक्ष्यलक्षणभावं दर्शयता विनीतदेवव्याख्यानं सज्ञासञ्जिसम्बन्धरूपं प्रत्युक्तम् । ' ( १०२७) (५) तेन यद्विनीतदेवेन सामान्ययोर्वाच्याचकभावनङ्गीकृत्य निर्विकल्पकत्वानिन्द्रियविज्ञानस्य प्रा.
दितं तद् दूषितं भङ्ग्या । (पृ. २३-४) ५६ म० म० सतीशचन्द्रविद्याभूषणलिखित 'हिस्टार आफ दि मिडिवलस्फूल आव इन्डियन लॉनिक ' .
नामक पुस्तकं द्रष्टव्यम् । (पृ० ११९) .
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com