SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ समयनिर्णयः । हरिभद्रः-धर्मोत्तरश हरिभद्राचार्येण बौदन्यायशास्त्रसूत्रणासूत्रधाराचार्यदिग्नागविरचितस्य 'न्यायप्रवेशमकरण' नामकप्रमाणप्रन्यस्यैका 'शिभ्यहिता' नानी संक्षिप्ता व्याख्या लिखिताऽस्ति । एतस्या व्याख्याया पादाचे 'अनुमान ' शब्दस्य व्याख्यां कुर्वता तेन सूरिणा (न जाने केन कारणेन-कदाचित्स्पतिम्रभेन) एकश्चिन्त्य उल्लेखः कृतः । सा व्याख्या इत्थमस्ति "मीयतेऽनेनेति मानम-परिच्छिद्यत इत्यर्थः । अनु' भन्दः पश्चादर्थे-पश्चान्मानमनुमानम्पक्षधर्मग्रहण सम्बन्धस्मरणपूर्वकमित्यर्यः । वक्ष्यति च “ त्रिरूपाल्लिङ्गालिङ्गिनि हानमनुमानमिति"। एतदवतरणप्रान्ते वक्ष्याते ' इति क्रियापदमुल्लिख्याने “ त्रिरूपालिङ्गाल्लिङ्गिनि शानमनुमानम्." इति, यत् सूत्रं निर्दिष्ट तदुपरि केनचित् प्राचीनेन पण्डितेन निम्नलिखिता टिप्पणी कुताsस्ति । यथा ___नन्वेतत्सूत्रं धर्मोत्तरीयम्, न तु प्रकृतशास्त्रसत्कम् । एतत्शाखसत्वमेतत् सूत्रम्-'लिङ्ग पुनरित्यादि । तत् कथं वक्ष्यति चेति ' प्रोच्यते ? । सत्यमेतत्- यद्यप्यत्रैवंविधं सूत्रं नास्ति तथाऽपि धर्मोत्तरीयसूत्रमत्र सूत्रोक्तानुमानलक्षणाभिधायकमेव, इत्यर्यतोऽनत्य-धोतरीयसूत्रयोः साम्यमेव, इत्यर्थापेक्षया वक्ष्यतीति व्याख्येयमिति न विरोधः । " टिप्पणीकारस्यानेनोल्लेखेन स्पष्टं नायते- यत् , ' वक्ष्यति' इति कृत्वा हरिभद्रेण यत् मूत्रं समु. घृतं तम दिनागाचार्यरचितम् , किन्तु धर्मोत्ताविरचितम् । दिमागीयसूत्रं विहाय धर्मोतरीयं सूर्ण फयमुल्लिखितमाचार्येण ?' इत्यस्य प्रश्नस्य विचारणया नास्त्यत्र किमपि प्रयोजनमस्माकम् । अमार्क स्वत्रेदमेव विचारणीयम्-यदि हरिभद्रसमुद्धृतस्य तस्य सूत्रस्य कर्ता, टिप्पणीकारोल्लेखानुसारेण धर्मातराचार्य एष, (-टिप्पणीकारकथने न कस्या अपि शङ्काया अवकाशः, कारणाभावात् ) ताई केऽसौ धर्मोत्तरः १ कय तत्कालः १ इति । । अद्यावधि तावत् पुरावित्सु धर्मकीचार्यविरचित ' न्यायविन्दु ' टीकाकर्तृत्वेनैक एच.धर्मोतरः सुप्रसिद्धोऽस्ति । परन्तु, स हरिभद्रानेर्दिष्टसूत्रकर्ता सिद्धो भवितुं नाईति। यतस्तस्य सचासमयो विद्वद्भिः सप्तचत्वारिंशदधिकाष्टशतीतम ( ८४७ ) स्वष्टान्दनिकटवर्ती निीतः। "यदि चायं समो वास्तविकस्तर्हि स धर्मोत्तरो हरिभद्रात् प्रायः शताब्दीममितसमयपधास्ती सिद्ध्यति । ततथ तत्कृतं सूत्रं हरिभद्रेग निर्देष्टुं न शक्यते । यदि पुनरन्यान्यैः प्रमाणैस्तत्सूत्रमस्यैव धर्मोत्तरस्य कृतित्वेन संसिद्ध्येत् , तर्हि तस्य समयोऽपि हरिभद्रसमयात् पूर्ववर्ती, तस्मादभित्रो का स्वीकर्तव्यो भवेत् । ५२ महामहोपाध्यायसतीशचन्द्रविद्याभूषणविरचितं हिलरी आव दि मीडीवर स्कूल भाव निवन डॉजिक' नामक पुस्तकं (पृ. १३१) ब्रहन्धम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034508
Book TitleHaribhadracharyasya Samay Nirnay
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy