SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ हरिभद्राचार्यस्व- १० . ५० 'पञ्जिका 'नानी एका टीकाऽपि तत्समकालसंजातेनैव नालन्दाविद्यापीठीयतन्त्रशास्राध्यापकेन माचार्यकमलशीलेन लिखिताऽस्ति । अस्य सटीकस्य ग्रन्थस्यैकः प्राचीनो हस्तलेखोऽस्माभिर्गुर्जरनापुरातनराज धान्यामणहिलपुरपट्टणनाम्न्यां प्रतिष्ठितजैन पुस्तकभाण्डागारे दृष्टचरः । हरिभद्रसूरिविरचित ' शास्त्रवार्तासमुच्चय ' ग्रन्थसदृश एव सर्वदर्शनालोचनात्मकः स ग्रन्थः । प्रस्तुतनिबन्धलेवनसमये तस्य ग्रन्थस्य पुरोवर्तित्वाभावाद् नैतद्वक्तुं शक्नुमो वयं यत्, हरिभद्रसूरिणा शान्तरक्षितकर्तृकसुपरि निर्दिष्टं यत् श्लोकार्थे समुद्धृतं तद् एतत्तत्त्वसङ्ग्रहान्तर्गतं किं वा अन्यग्रन्थान्तर्गतम्, इति । परन्तु, एतावाँस्तु दृढविश्वासोऽस्माकम् – उक्त श्लोकार्द्धम्, किं वा तदुक्तो विचारः प्रस्तुतस्यैव शान्तरक्षितस्य निर्मिते कस्मिन्नपि ग्रन्थे भवेदिति । तथा सति, यदि विद्याभूषणमहाशयेन लिखितः शान्तरक्षितसमयो वास्तवस्तदा हरिभद्रः, शान्तरक्षित - एतौ द्वौ समसमयवर्तमानावेवास्ताम् । इह खलु कश्चिद्विद्वानित्यमाशङ्केत - यदि हरिभद्र-शान्तरक्षितौ द्वौ समसमय एव वर्तमानावभूताम्, तर्हि हरिभद्रकृतः शान्तरक्षितविचारप्रतिक्षेपः कथं सङ्गतिमाप्नुयात् १ यतः - तस्मिन् पुरातने समये, इदानीमुपलभ्यमानानि मुद्रणयन्त्र - समाचारपत्र-धूमशकटादिसदृशानि साधनानि नासन्, साहाय्यात् स्वल्पेनैव कालेन कश्चिद् विद्वान्, तदीयो विचारो वा सर्वत्र विश्रुतो भवितुं शक्नुयात, तथा, तस्य जीवितावस्थायामेव देशान्तरीयाः, सम्प्रदायान्तरीया वा विद्वांसो नामस्मरणम्, विचारालोचनं वा कर्तुं पारयेयुः । येषां अस्माकमिदं मतम् - इदं किल सत्यम्, उक्तसाधनविरहिते तादृशे पुरातने समये साधारणपण्डितस्याssधुनिक समयवत् स्वल्पेनैव कालेन सर्वत्र प्रसिद्धीभवनं न सुलभम् ; तथापि, असाधारणमज्ञाशालिनो विदुषो विख्यातेर्दशभिर्विंशत्या वा वर्षेः देशदेशान्तरेषु यथेष्टमसरणं नैवाऽ शक्यम् । यतः पुरा काले भारतवर्षे एतादृशी पद्धतिरेवासीत् यदा कदा यः कोऽपि - असाधारणो विद्वान् प्रादुर्भवति, तदा स स्वकीयं वैदुष्यं प्रख्यापयितुम्, दिग्विजयं च कर्तुं देश-देशान, रेषु परिभ्रमणार्थे निर्गच्छति स्म । अनेकासु विद्वत्सभासु राजसभासु च समुपस्थायाऽपरापरैः प्रसिद्धविद्वद्भिः सह वादविवादं करोति स्म । स्थले स्थले स्वविचारानुयायिनः शिष्यान स्थापयति । तथैव यदा कदा यः कश्चिद् विद्वान् नवीनमपूर्वै ग्रन्थं लिखति, तदा तं ग्रन्थमनेकेषु आदर्शेषु अवतार्य प्रसिद्धप्रसिद्धतरपुस्तकागार - राजमन्दिर -देवालयादिषु स्थानेषु उपहाररूपेण, प्रख्याततरपण्डितानां समीपेषु विलोकनाय च प्रेषयति । इति हेतोस्तादृशविदुषः स्वजीवितावस्थायामेव यथेष्टप्रसिद्धी प्राप्तव्यायाम्, अन्यान्यविद्वद्भिश्च तदीयग्रन्यानां आलोचना- प्रत्यालोचनायां कर्तव्यायामपि न च काचिदसम्भवनीयता । ५० अघुमा वटपत्रीय ( बडोदरा ) राज्यद्वाराप्रकाशित ' गायकवाडस् ओरिएन्टलसीरीक्ष' नाम्यां ग्रन्थमालायां मुद्रयते पर ग्रन्थः । ५१ ' डेक्ककमकालेज ' संस्थितराजकीयग्रन्थ सङग्रहस्य पुस्तकम्, ५० २१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034508
Book TitleHaribhadracharyasya Samay Nirnay
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy