________________
॥ ईम् ॥
| नमोऽईले भ्रमणाय भगवते महाबीसब ।
श्रीहरिभद्राचार्यस्य समय निर्णयः ।
श्रीजिनशासनप्रभावनाप्रभाताविर्भावनभास्करः, सितपटपटलमधानप्रावचानकपुरुषप्रवरः, प्रभूतप्रकरणप्रबन्धप्रणयनचतुरः, स्याद्वादमुद्रासंस्थापनैकधुरन्धरः, षड्दर्शनशास्त्रवार्ताभिधौरेयः, सुगृहीतनामधेयः श्रीहरिभद्रसूरिर्नामैको जैनधर्मीयः सुप्रसिद्ध आचार्यः पुराऽभवत् । तेन धार्मिकविषयविबेचकाः, दार्शनिक सिद्धान्तप्रतिपादकाश्च मननीया भूयांसो ग्रन्था अग्रन्थिषत । भिन्नभिन्नदर्शनानि, मतानि च मध्यस्थ बुद्धचा कोमलपद्धतिपुरस्सरमालोचयन्तः, विपक्षीयविचारकाणामपि गौरवपूर्वकं नामोल्लेखं कुर्वन्तो भारतीयेतिहासे उल्लेखनीया ये केचन विद्वांसः स्युः, तेष्वस्य विदुषो नाम प्रथमोयोग्यं वर्तते ।
जैन इतिहासे हरिभद्रनामकानामनेकेषामाचार्याणामुल्लेखा लभ्यन्ते, परन्तु यम्मुद्दिश्य गयमुपरितनानि विशेषणानि निर्दिशामः, स सर्वेषां प्रथमः- अर्थादादिमो हरिभद्रः - ज्ञातव्यः । तस्यैव प्रथमहरिभद्राचार्यस्य सत्तासमय सम्बन्धि विचारणम्, निर्णयविधानं चास्माकं प्रस्तुतनिबन्धस्य विषयः। अस्माभिरादावेव सूचितम्, यत् - श्रीहरिभद्रो निखिलदर्शनशास्त्रतलस्पर्शी विद्वानासीत् । तस्मिन् विषये तेनानेके लघवः, महान्तथ ग्रन्था रचिता वर्तन्ते । तेषु ग्रन्थेषु स्थले स्थले भारतवर्षीयाणामनेकेषाम्पति-वैदिक- बौद्ध तत्त्वज्ञानामाचार्याणां धर्म-तत्त्व-विचारा आलोचिताः प्रत्यालोचि -
दृश्यन्ते । अतः कारणात् श्रीहरिभद्र सूरेरस्तित्वसमय निश्वये सञ्जाते तत्पूर्ववर्तिनामन्यकतिपयदार्शनिककोविदानां सत्तासमयविषयेऽपि कतिचिद् ज्ञातव्या वार्ता ज्ञातुं शक्याः ।
यूरोपीय पाण्डितेषु प्रायः सर्वतः प्रथममध्यापकपिटर्सन ( Professor P. Peterson ) महाशयेन हरिभद्रस्य परिचयः प्राप्तः । तेन च स्वीये चतुर्थे कार्यविवरणे ( Fourth Report on Sk. Mss. 1886-92,) धार्मिकनीतिस्वरूपस्यानुपमतया प्रतिपादकं संस्कृतसाहित्यहृदयहारायमाणम् ' उपमि - तिभवमपश्चा- कथा ' नामानं सहृदयहृदयङ्गमं कथाग्रन्थं रचयितुर्जेनसाधोः श्रीसिद्धर्षेः परिचयं कार - यता हरिभद्रविषयेऽपि कियानुल्लेखः कृतः । तत्पश्चात्, क्लत्त (J. Khatt ) स्युमन ( E Leumann ) (याकोबी ( H. Jacobi ) बोल्लनि ( A. Ballini ) मिरोनो ( N. Mironow ) प्रभृतिभिरन्यैः -
,
१ इष्टव्यम् - पं० हरमोबिन्ददासलिस्थित हरिभद्रसूरिचरित्रम् ' पृ० १ । १ पृ० ५ तथा परिशिष्ट ( Index of Authors ) पृ० CXXIX.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com