________________
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २२९ ६७५-'यदताप्सीच छनैर्भानुरू, यत्राऽवासीन् मितं मरुत्॥
याप्यानं हिमोस्रण, भनक्युपवनं कपिः ॥२॥ यदित्यादि-यद्वनं भानुः शनैर्मन्दमताप्सीत् तपति स्म । हलन्तलक्षणा वृद्धिः । मरुत् मितं स्तोकमवासीत् वाति स्म । हिमोस्रेण शिशिररश्मिना आप्यानं वृद्धिं नीतम् । प्यायतेः ८७३। लोपो व्योवलि १६१६६।' इति यलोपः । ओदित्त्वान्नत्वम् । तदुपवनं कपिर्भनक्ति चूर्णयतीति निवेदनमकार्षुः ॥ ६७६-ततो ऽशीति-सहस्राणि किङ्कराणां समादिशत् ॥
इन्द्रजित्-सूर् विनाशाय मारुतेः क्रोध-मूर्छितः॥३॥ तत इत्यादि-निवेदनानन्तरमिन्द्रजित्सूः रावणः । इन्द्रजितं सूत इति '२९७५। सत्सूद्विष-३।२।६१॥' इत्यादिनानुपसर्गे किप् । मारुतेर्हनूमतो विनाशाय । अशीतिसहस्राणि समादिशत् समादिष्टवान् । किङ्कराणां किं कुर्वन्तीति '२९३५। दिवा विभा-३।२।२१॥' इत्यादिना टचू । क्रोधमूर्छितः क्रोधोद्धतः । मूर्छः समुच्छ्राये वर्तमानत्वात् ॥ ६७७-शक्त्यष्टि-परिघ-प्रास-गदा-मुद्गर-पाणयः ।।
व्यनुवाना दिशः प्रापुर वनं दृष्टि-विषोपमाः. ॥४॥ शक्तीत्यादि-ते किङ्करा वनं प्रापुः प्राप्तवन्तः । शत्यादयः प्रहरणविशेषाः पाणी येषामिति प्रहरणार्थेभ्यः परे निष्टासप्तम्यौ भवतः । व्यश्नुवानाः दिशो व्यामुवन्तः । १३४५। अशू व्याप्तौ' सौवादिकः । दृष्टिविषोपमाः, भुजङ्गवत् दृष्ट्यैव विनाशयन्त इत्यर्थः ॥ ६७८-दध्वान मेघ-बद् भीमादाय परिघं कपिः ॥
नेदुर् दीप्तायुधासू तेऽपि तडित्वन्त इवाऽम्बुदाः॥५॥ दध्वानेत्यादि-कपिभॊमं परिघं भयानकमर्गलमादाय मेघवध्वान ध्वन. ति स । तेऽपि किङ्कराः तडित्वन्त इवाम्बुदाः । नेदुः नदन्ति स्म । किङ्कराणां कृष्णत्वात् मेधैः सादृश्यं आयुधानां च तडितेति ॥ ६७९-कपिना ऽम्भोधि-धीरेण समगंसत राक्षसाः॥
वर्षासूद्धत-तोयौघाः समुद्रेणेव सिन्धवः ॥ ६॥ कपिनेत्यादि-कपिना अम्भोधिधीरेणाक्षोभ्यत्वात् । राक्षसाः समगंसत संगताः । '२६९९। समो गम्युच्छि-१।३।२९।' इत्यादिना तङ् लुङ् । यथा सिन्धवो नद्यः उद्धततोयौघाः उद्रिक्तजलपूराः समुद्रेण सङ्गच्छन्ते ॥ ६८०-लाङ्गलमुद्धतं धुन्वन्नुद्वहन् परिघं गुरुम् ॥
तस्थौ तोरणमारुह्य, पूर्व न प्रजहार सः ॥७॥
भ० का० २० Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com