SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२८ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे तृतीयो वर्गः, ६७३-विलुलित-पुष्प-रेणु-कपिशं प्रशान्त-कलिका-पलाश-कुसुमं कुसुम-निपात-विचित्र-वसुधं स-शब्द-निपतद् द्रुमोत्क-शकुनम् ॥ शकुन-निनाद-नादि-ककुब् विलोल-विपलायमान-हरिणं हरिण-विलोचनाऽधिवसति बभञ्ज पवनाऽऽत्मजो रिपु-वनम् . ॥१३१॥ विलुलितेत्यादि-कीदृशं बभञ्ज । विलुलितानां पुष्पाणां रेणुभिः कपिशं पिङ्गम् । प्रशान्ता अवसन्नाः कलिकाः पलाशानि पत्राणि कुसुमानि च यन्त्र । कुसुमानां निपातेन विचित्रा वसुधा यत्र । सशब्दनिपतद्भिर्दुमैस्का उन्मनसः शकुना यत्र । शकुनानां पलायमानानां निनादेन नादिताः संजातनादाः ककुभो दिशो यत्र । विलोला व्याकुला विपलायमाना हरिणा यत्र । हरिणस्येव लोचने यस्याः सीतायाः तस्या अधिवसति निवासम् ॥ इत्यनभिहिताधिकारः॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयः परिच्छेदः (वर्गः), तथा लक्ष्य रूपे कथानके 'ऽशोकवनिकाभङ्गो' नामाष्टमः सर्गः पर्यवसितः। नवमः सर्गः। अथ प्रकीर्णकाःअत्रान्तरे प्रकीर्णकश्लोकानाह६७४-दु-भङ्ग-ध्वनि-संविग्नाः कुवद्-पक्षि-कुला ऽऽकुलाः ॥ __ अकार्युः क्षणदा-चर्यों रावणस्य निवेदनम् ॥१॥ दूभनेत्यादि-क्षणदाचर्यो निशाचर्यः । '२९३०। चरेष्टः ।३।२।१६।' रावणस्य निवेदनमकार्युः कृतवत्यः वक्ष्यमाणप्रकारेण । दु-भङ्ग-ध्वनि-संविग्नाः शाखाभङ्गशब्देन संत्रस्ताः । '१३७३। ओविजी भय-चलनयोः ।' '३०१९। ओदितश्च ।२।३५।' इति निष्ठानत्वम् । कुवत्पक्षिकुलाकुलाः कूजद्भिः पक्षिकुलैः व्यस्तमानसाः । १११५। कु शब्दे ।' भादादिकस्तस्य उवङादेशः ॥ १-पद्येऽस्मिन् अश्वललितं वृत्तम् । तल्लक्षणं तु–'यदिह नजौ. भजौ भ-ज-भगासू तदश्वललितं हराकै यतिमत् ।' इति वृत्तरलाकरे भट्टकेदार आह । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy