SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २३० भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थो वर्गः, लाङ्गूलमित्यादि - स हनूमान् लाङ्गूलं पुच्छमुद्धतं उत्क्षिप्तं धुन्वन् । '१३३५। धून कम्पने' इति स्वादौ पठितः । परिघं गुरुं उद्वहन् तोरणमारुह्य तस्थौ । न तु पूर्व प्रजहार प्रहृतवान् शूराणां पश्चात् प्रहारित्वात् ॥ एते प्रकीर्णकाः ॥ इतःपरं सिचि वृद्धिमधिकृत्याह - ६८१ - अक्षारिषुः शरा॒म्भांसि तस्मिन् रक्षः पयोधराः, ॥ न चा ऽह्वालीन्, न चाऽव्राजीत् त्रासं कपि-महीधरः ८ - अक्षारिषुरित्यादि - तस्मिन् वने रक्षः पयोधराः रक्षांसि पयोधरा इव । शराम्भांसि शरान् अम्भांसीव । अक्षारिषुः क्षरितवन्तः । क्षरतिरकर्मकः क्षरेरक्षतजवृत्तिरित्यादि प्रयोगेषु दृश्यते । इह तु सकर्मको विवक्षितः । कपिर्महीधर इव । न चाह्नालीत् न चलितवान् । द्वयोरपि '२२८४ । अतो हलादेर्लघोः ॥७॥ - २७|' इति विकल्पे प्राप्ते '२३३० । अतो व्रान्तस्य | ७|२२|' इति सिचि वृद्धिः । नानाजीत् नासं भयं च न जगाम । महीधरतुल्यत्वात् । '२२६८। नेटि |७|२४।' इति प्रतिषेधस्य '२२८४। अतो हलादेर्लघोः | ७ | २|७ |' इति विकल्पिते '२२६७। वद-ब्रज-।७।२|३|' इत्यादिना वृद्धिः ॥ ६८२ - अवादीत् तिष्ठतेत्युच्चैः, प्रादेवीत् परिघं कपिः ॥ तथा, यथा रणे प्राणान् बहूनाम॑ग्रहीद् द्विषाम् ॥९॥ अवादीदित्यादि - तत उत्तरकालं कपिस्तिष्ठत मा पलायध्वमिति उच्चैस्तानवादीत् । पूर्ववद्वृद्धिः । तथा तेन प्रकारेण परिघं परिघेण प्रादेवीत् विजिगीषते स्म । '५६२। दिवः कर्म च | १|४|४३|' इति परिघस्य कर्मसंज्ञा । दिवे ः '२२६८। नेट | ७ | २|४|' इति वृद्धिप्रतिषेधः । यथा बहूनां द्विषां शत्रूणां प्राणान्यग्रहीत् निगृहीतवान् । ‘२२८४। अतो हलादेः | ७|२|७|' इति विकल्पे प्राप्ते '२२९९ । हृयन्त-क्षण-श्वस-।७।२|५|' इति प्रतिषेधः ॥ : ६८३–व्रणैर॑व॒मिषू रक्तं, देहैः प्रौर्णाविषुर् भुवम् ॥ " दिशः प्रौर्णाविषुश्चाऽन्ये यातुधाना भवद् - भियः १० व्रणैरित्यादि - यातुधाना राक्षसा व्रणैः प्रहारमागैः रक्तं शोणितमवमिषुः चमन्ति स्म । '२२९९। हयन्त - | ७|२| ५ | ' इति वृद्धिप्रतिषेधः । देहैर्भुवं प्रौर्णाविषुः छादितवन्तः । अन्ये यातुधानाः भवद्भियः भवन्ती भीर्येषामिति भयात्पलायमानाः । दिशः प्रौर्णाविषुः छादितवन्तः । ' २४४९ । ऊर्णोतेर्विभाषा ।७।२।६।' इति विकल्पः । ऊर्णोतेः ‘२४४७ | विभाषोर्णोः | १२|३|' इत्यङित्वपक्षे द्रष्टव्यः । डिवे गुणवृद्धिप्रतिषेधात् ॥ ६८४ - अरासिषुश च्युतोत्साहा भिन्न- देहाः प्रियाऽसवः ॥ कपेरत्रासिषुर् नादान् मृगाः सिंह- ध्वनेरिव ॥ ११ ॥ इति सिचि वृद्ध्यधिकारः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy