SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य रूपे कथानके 'ऽशोकवनिका भङ्गो' नामाष्टमः सर्गः - २२७ स्वामिनः अन्तिकं समीपं गामुको ऽपि गमनशीलो ऽपि । उकप्रयोगे प्रतिषेधः । मनसा क्षणं चिन्तितवान् वक्ष्यमाणं कर्म ॥ ६६९–'कृत्वा कर्म यथाऽऽदिष्टं पूर्व कार्याऽविरोधि यः ॥ करोत्यभ्यधिकं कृत्यं, तमा॑हुर् दूतमु॑त्तमम् ॥१२७॥ कृत्वेत्यादि - यो दूतो यथोद्दिष्टं कर्म कार्य कृत्वा । भन्न कृत्वेत्यव्ययप्रयोगे प्रतिषेधः । तत उत्तरकालं पूर्वकर्माविरोधि पूर्वकृतस्य कार्यस्य यदविरोधि तद्धिकं करोति तमुत्तमं दूतमाहुर्विदुः । नीतिविद इति शेषः । मया च यथोद्दिष्टं सीतान्वेषणं कृतमिति भावः ॥ तदेव च दर्शयन्नाह - ६७० - वैदेहीं दृष्टवान् कर्म कृत्वा ऽन्यैरपि दुष्करम् ॥ यशो यास्याम्युपादाता वार्तार्माख्यायकः प्रभोः. १२८ वैदेही मित्यादि - अहमद्य तावद्वैदेहीं दृष्टवान् । निष्ठाप्रयोगे प्रतिषेधः । अन्यदपि कार्यमतिदुष्करं कृत्वा । खलप्रयोगे प्रतिषेधः । ततो यश उपादाता । आत्मसात्कर्ता । इदमतिदुष्करं तेन कृतमिति । तृनन्तस्य प्रयोगे प्रतिषेधः । वार्तामाख्यायकः प्रभोर्वार्तामाख्यातास्मीति भविष्यदधिकारात् '३१७५॥ तुमुन्वुलौ क्रियायाम् - २३|३|१०|' इति ण्वुल् । '६२८ । अकेनो भविष्यदाधमर्ण्ययोः |२| ३ |७० |' इति प्रतिषेधः ॥ ६७१ - राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्, ॥' इति संचिन्त्य सदृशं नन्दनस्या Sभनक् कपिः . १२९ राक्षसेत्यादि - इदं वनमशोकवनिकाख्यं राक्षसेन्द्रस्य संरक्ष्यं रक्षार्हम् । '२८२२ । अर्हे कृत्य ।३।३।१६९ । ' '२८७२ | ऋ-हलोर्ण्यत् |३|१|१२४ | ' तन्मया लव्यं लवनीयम् । '६२९| कृत्यानां कर्तरि वा | २|३|७१।' इति षष्ठीतृतीये कर्तरि भवतः । इत्येवं संचिन्त्य कपिर्नन्दनस्य वनस्य सदृशं तुल्यं । '६३०| तुल्यार्थैः |२| ३ | ७२ ॥ इति पक्षे षष्ठी । अभनक् भग्नवान् । भञ्जेर्लङि '२५४४ । नान्नलोपः १६।४।२३।' इति नलोपे हल्ङयादिलोपे जइवे चर्चे च रूपम् ॥ ६७२ - राघवाभ्यां शिवं, दूतस्तयोर॑हर्मिति ब्रुवन् ॥ " हितो भनज्मि रामस्य कः किं ब्रूते ऽत्र राक्षसः, १३० 'राघवाभ्यामित्यादि - राघवाभ्यां रामलक्ष्मणाभ्यां शिवं भद्रमस्तु । तयोहनूमान् दूतो हितो रामस्य भनज्मीदं वनम् । एवं च क्रियमाणे को भवतां मध्ये राक्षसः किं ब्रूते इत्येवं ब्रुवन् । बभञ्ज पवनात्मजो रिपुवनमिति वक्ष्यमाणेन संबन्धः । राघवाभ्यां शिवं हितो रामस्येति '६३१ | चतुर्थी चाशिष्य - 1२1३७३३' इत्यादिना षष्ठी चतुथ्यौं । इति विभक्तत्यधिकारः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy