SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ सटीकः। आद्या इति। हे पूर्णेदुबिंबानने काव्यरसिकास्तद्वृत्तं शार्दूलविक्रीडितं वदति । यत्राद्यास्त्रयो गुरवः षष्ठस्तथाऽष्टमः गुरुः ननु एकादशतस्त्रयः द्वादशत्रयोदशचतुर्दशा गुरवः ततश्चैदष्टादशस्याद्यौ षोडशसप्तदशौ गुरू स्याताम्। यत्र मार्तडैमुनिभिदशसप्तभिर्वितिः । हे प्रियतमे तदेतच्छार्दूलविक्रीडितम्।पूर्णश्चासाविंदुस्तस्य बिंबवदाननं यस्याः सा । अतिशयेन प्रिया प्रियतमा तस्याः संबुद्धौ । तदुक्तं रत्नाकरे। सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्॥४३॥ शार्दूलविक्रीडितम् । च० अ० १९ ग० म, स, ज, स, त, त, ग यतिः १२, ७ ॥ चत्वारो यत्र वर्णाः प्रथममलघवः षष्ठकः सप्तमोऽपि द्वौ तद्वत्पोडशायौ मृगमदमुदिते षोडशांत्यौ तथांत्यौ॥रंभास्तंभोरुकांते मुनिमुनिमुनिभिदृश्यते चेद्विरामो बाले वंद्यैः कवीन्द्रैः सुतनु निगदिता स्रग्धरा सा प्रसिद्धा ॥४४॥ इति श्रीकविकालिदासकृतः श्रुतबोधनामक __छंदोग्रन्थः समाप्तः ॥ एकविंशत्यक्षरजातौ स्रग्धरालक्षणम् । चत्वार इति ॥ हे सुदति वंद्यैः पूज्यैः कवींद्रैः प्रसिद्धा इयं स्रग्धरा गदिता । यत्र प्रथम चत्वारो वर्णा अलघवो गुरवः संति षष्ठकः सप्तमोऽपि तद्गुरुः षोडशाद्यौ चतुर्दशपंचदशौ तथांत्यौ सप्तदशाष्टादशौ गुरू स्यातां मुनिमुनिमुनिभिर्विरामः। हे रंभास्तंभोरु कांते हे वाले इयं स्रग्धरा प्रसिद्धा । मृगस्य मदेन मुदिता सा । रंभायाः स्तंभवदूर्वोः कांतियस्याः सा सुशोभना दंता यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे। For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy