SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ श्रुतबोधः। स्यात् हे अलिकुंतले षडष्टमं च गुरु है प्रिये द्वादशमथ चतुर्दशं गुरु हे गभीरनाभिन्हदे पंचदशेन सहितमंतिमं गुरु स्यात् । हे कांते यत्र करीन्ट्रैरष्टभिः फणिभृत्कुलैर्नवभिश्च यातिः स्यात्तत्पृथ्वीनामकं वृत्तं भवति। अलिवभ्रमरवच्छयामाः कुंतला अलका यस्याःसा। गंभीरा निम्ना नाभिरेव ह्रदो यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे। जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ ४१ ॥ पृथ्वी । च अ० १७, ग० ज, स, ज, स, य, ल, ग. यतिः, ८, ९ ॥ चत्वारः प्राक्सुतनु गुरवो द्वादशैकादशौ चेन्मुग्धे वर्णौ तदनु कुमुदामोदिनि द्वादशांत्यौ ॥ तद्वच्चांत्यौ युगरसहयैर्यत्र कांते विरामो मंदाक्रां तां प्रवरकवयस्तन्वि तां संगिरते ॥४२॥ मंदाक्रांतालक्षणमाह । चत्वार इति॥हे तन्धि प्रवरकवयो यत्र प्राक चत्वारो वर्णा गुरवः स्युः। हे कुमुदामोदिनि चेद्वौँ द्वादशैकादशी गुरू स्तः । हे मुग्धे द्वादशांत्यौ द्वादशांत्यस्थितौ त्रयोदशचतुर्दशौ गुरू स्याताम्।अंत्यौ षोडशसप्तदशौ तद्वद्गुरू युगरसहयैर्विराम एतादृशीं तां मंदाक्रांतां संगिरते । कुमुदवदामोदः सुगंधिर्यस्याः सा। तथोक्तं रत्नाकरे । मंदाक्रांता जलधिषडगैम्भौं नतौ ताद्गुरू चेत् ।। ॥ ४२ ॥ मंदाक्रांता । च० अ० १७, ग० म, भ, न, त, त, ग, ग, यतिः ४, ६, ७॥ आद्याश्चेद्गुरवस्त्रयः प्रियतमे षष्ठस्तथा चाष्टमो नन्वेकादशतस्त्रयस्तदनु चेदष्टादशायौ ततः ॥ मार्तडैर्मुनिभिश्च यत्र विरतिः पूर्णेदुबिंबानने तद्वृत्तं प्रवदंति काव्यरसिकाः शार्दूलविक्रीडितम् ॥१३॥ For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy