SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। सप्तभिश्च विराम: स्यात्तदा सा हरिणी स्मृता।स्फुरंति करयोःकंकणानि यस्याः सा ललित आलापो यस्याः सा । उक्तं च रत्नाकरे। रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा ॥३९॥ हरिणी च० अ० १७, ग० न, स, म, र, स, ल, ग, यतिः ६, ४, ७ ॥ यदा पूर्वो ह्रस्वः कमलनयने षष्ठकपरास्ततो वर्णाः पंच प्रकृतिसुकुमारांगि लघवः ॥ त्रयोऽन्ये चोपांत्याः सुतनु जघनाभोगसुभगे रसै रुदैर्यस्यां भवति विरतिः सा शिखरिणी ॥ ४० ॥ अथ शिखरिणीलक्षणमाह । यदा पूर्वो हस्व इति । हे सुतनु जघनाभोगसुभगे यदा पूर्वो वर्णों -हस्वो भवति । हे प्रकृतिसुकुमारांगि ततः षष्ठकपराः षष्ठतः पंच वर्णाः सप्तमाष्टमनवमदशमैकादशा लघवः संति । अन्ये उपांत्यास्त्रयो वर्णाश्चतुर्दशपंचदशषोडशा लघवो भवति । यस्यां रसैः षड्भी रुद्ररेकादशैविरतिर्भवेत् । हेसुतनु सा शिखरिणी कथिता । कमलवन्नयने यस्याः सा । प्रकृत्या स्वभावेन सुकुमाराण्यंगानि यस्याः। जघनयोराभोगस्तेन सुभगा। सुशोभना तनुर्यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । रसै रुद्रैश्छिन्ना यमनसमला गः शिखरिणी ॥ ४० ॥ शिवारणा । च० अ० १७, ग० य, म, न, स, भ, ल, ग, यतिः ६, ११॥. द्वितीयमलिकुंतले यदि पडष्टमं द्वादशं चतुर्दशमथ प्रिये गुरु गभीरनाभिह्रदे ॥ सपंचदशमंतिमं तदनु यत्र कांते यतिः करींद्रफणिभृत्कुलैर्भवति सुभ्र पृथ्वी हि सा॥४१॥ पृथ्वीलक्षणमाह। द्वितीयमिति । हे सुभु यदि द्वितीयसंख्याकं गुरु For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy