SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतबोधः। चतुर्थ दशमांत्यम् एकादशमुपांत्यं त्रयोदशम् अंत्यं चतुर्दशम् एते गुरवः स्युः हे कांते बुधास्तां वसंततिलकां वदंति । काम एवांकुशस्तेनांकुशिता वशीकृताः कामिन एव मतंगजेंद्रा यया सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । उक्ता वसंततिलका तमजा जगौ गः ॥ ॥ ३७॥ वसंततिलका । च० अ० १४, ग० त, भ, ज, ग, ग । प्रथममगुरुषटुं विद्यते यत्र कांते तदनु च दशमं चेदक्षरं द्वादशांत्यम् ॥ कारभिरथ तुरंगैर्यत्र कांते विरामः सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा॥३८॥ पंचदशाक्षरजातौ मालिनीलक्षणमाह।प्रथममिति ॥ हेकांते यत्र प्रथमं षट्कमगुरु लघ्वेव भवति तदनु दशमं द्वादशांत्यं त्रयोदशं च लघु । करिमिरथ तुरंगैरष्टामः सप्तभिश्च विरामस्तदा सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा कृता । तदुक्तं रत्नाकरे।ननमयययुतेयं मालिनी भोगिलोकैः ॥ ३८ ॥ मालिनी । च० अ० १५, ग० न न, म, य, य, यतिः ८, ७ ॥ सुमुखि लघवः पंच प्राच्यास्ततो दशमांतिकस्तदनु ललितालापे वर्णौ यदि त्रिचतुर्दशौ॥प्रभवति पुनर्यत्रोपांत्यः स्फुरत्करकंकणे यतिरपि रसैदेरश्वैः स्मृता हरिणीति सा ॥३९॥ सप्तदशाक्षरजातौ हरिणीलक्षणमाह । सुमुखीति । हे स्फुरत्करकंकणे यत्र प्राच्याः प्रथमे पंच वर्णा लघवः संति । ततो दशमांतिक एकादशः हेललितालापे यदि त्रिचतुर्दशौत्रयोदशचतुर्दशौ लघू स्याताम् उपांत्यः षोडशोऽपि लघुः। रसैःषड्भिर्वेदैश्चतुभिरश्वैः For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy