SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद-२, सूत्र-१३-१५ ह-शश्वद-युगान्तःप्रच्छये ह्यस्तनी च ॥ ५. २. १३ ॥ पञ्चपर्ष युगं, तस्यान्तर्मध्यं, तत्र पृच्छचते यः स युगान्तःप्रच्छयः । हे शश्वति च प्रयुज्यमाने, युगान्तःप्रष्टव्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोशस्तनी परोक्षा च विभक्ती भवतः । इति हाऽकरोत् , इति ह चकार, शश्वदकरोत् , शश्वच्चकार । प्रच्छये -किमगच्छस्त्वं मथुराम् ? कि जगन्थ त्वं मथुराम् ? ह-शश्वद्युगान्तःप्रच्छय' इति किम् ? जघान कसं किल वासुदेवः। वेत्येव कृते भूतानद्यतनमात्र भाविन्या शस्तन्याः पक्षे सिद्धौ शस्तनोविधानं स्मत्यर्थयोगेऽपि हस्तन्येव यथा स्यान्न भविष्यन्तीत्येवमर्थम् , तेन स्मरसि मित्र! कश्मीरेष्वितिहाध्यैमहि, अभिजानासि चैत्र ! शश्वदध्यमहि, इत्यादि सिद्धम् । ' क्रियान्तराकाङ्क्षायां तु ह-शश्वत्प्रयोग एव न संभवतीति नोदाह्रियते ॥१३॥ न्या० स०-हशश्वद्यु-इतिहाकरोदिति-निपातसमुदाय: प्रवादपारंपर्य इतिहाशब्दो वर्त्तते, यद्वा एतत् ह इति वाक्यालंकारे । प्रयोग एव न संभवतीति-नियातानां यथादर्शनं प्रयोगात् । अविवक्षिते ॥ ५. २. १४ ॥ भूतानद्यतने परोक्षे परोसत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातोय स्तनी विभक्तिभंवतिः। अभवत् सगरो राजा, प्रहन कंसं वासुदेवः । एवं च परोक्षानघतने विवक्षावशादद्यतनी-शस्तनी-परोक्षास्तिस्रो विभक्तयः सिद्धाः। तथा च-"अन्वनेषीत् ततो वाली न्यक्षिपच्चाङ्गदं सुग्रीवं प्रोचे सद्भावमागतः ।" 'राक्षसेन्द्रस्ततोऽभषोत् सैन्यं समस्तं सोऽयुयुत्समल स्वयं युयुत्सयांच' । तथा "अभवस्तापसाः केचित् पाण्डुपत्रफलाशिनः । पारिवाज्यं तदाऽवत्त मरीचिश्न तृषावितः ।" इति ॥१४॥ न्या० स०-अविवक्षिते-तिस्रोऽपि विभक्तय इति-परोक्षत्वेन वा विवक्षिते विशेषाविवक्षा' ५-२-५ इत्यवतनी, परोक्षत्वेन त्वऽविवक्षितेऽनेन ह्यस्तनी, उभयसद्भावविवक्षायां तु 'परोक्षे' ५-२-१२ इत्यनेन परोक्षा। वाऽद्यतनी पुरादौ ॥ ५. २. १५ ॥ 'परोक्षे' इति निवृत्तम् , भूतानद्यतने परोक्षे चापरोक्षे चार्थे वर्तमानाद् धातोः 'परा' इत्यादावुपपदेऽद्यतनी विभक्तिर्भवति वा । अपरोक्षे शस्तन्याः परोक्षे तु परोक्षाया अपवादः । वावचनात् पक्षे यथाप्राप्ति ते अपि भवतः । ___ अवात्सुरिह पुरा छात्राः, अवसनिह पुरा छात्राः, ऊषुरिह पुरा छात्राः, तदाऽभाषिष्ट राघवः, तदाऽभाषत राघवः, बभाष राघवस्तदा। भूतानद्यतनपरोक्षेऽद्यतनों नेच्छ
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy