________________
पाद - २, सूत्र १०-१२ ]
श्री सिद्धहेमचन्द्र शब्दानुशासने पंचमोऽध्यायः [ २५१
स्मृत्यर्थे धातावुपपदे सति भूतानद्यतनेऽर्थे वर्तमानाद् धातोर्भविष्यन्ती विभक्तिभवति, अयदि न चेद् यच्छन्दः प्रयुज्यते ।
अभिजानासि देवदत्त ! कश्मीरेषु वत्स्यामः स्मरति साधो ! स्वर्गे स्थास्यामः, एवं बुध्यसे चेतयसे प्रध्येष्यवगच्छसि चैत्र ! कलिङ्ग ेषु गमिष्यामः । अयदीति किम् ? अभिजानासि मित्र ! यत् कलिङ्ग ेष्ववसाम || ६ ||
न्या० स०-अयदि ने चेद्यत् शब्द इति धात्वर्थवाचकः क्रियाविशेषणरूपो न प्रयुज्यते यस्मादर्थे तु भविष्यन्त्येवेति न्यासः । यत्कलिङ्गष्ववसामेति क्रियाविशेषणमेतत्, यदुवसनं न स्मरसीत्यर्थः यदा तु यस्माद्धेतोः कलिङ्गेषु उषितवन्त इति विवक्ष्यते तत्र भविष्यन्त्येव ।
वाऽऽकाङ्क्षायाम् ।। ५. २. १० ॥
अयदीति नानुवर्तते, स्मृत्यर्थे धातावुपपवे सति यद्ययदि वा प्रयुज्यमाने प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनेऽर्थे वर्तमानाद् धातोर्भविष्यन्ती वा भवति ।
स्मरति मित्र ! कश्मीरेषु वत्स्यामस्तत्रोदनं भोक्ष्यामहे पास्यामः पयांसि च स्मरसि मित्र ! कश्मीरेष्ववसाम तत्रौदनमभुमहि; स्मरसि मित्र ! यत् कश्मीरेषु वत्स्यामो यत् तत्रौवनम् भोक्ष्यामहे, स्मरसि मित्र ! यत् कश्मीरेष्ववसाम यत् तत्रौदनमभुञ्ज्महि । प्रत्र वासो लक्षणं भोजनं पानं च लक्ष्यमिति लक्ष्य - लक्षणयोः संम्बन्धे प्रयोक्राकाङ्क्षा भवति ॥ १० ॥
कृतास्मरणाऽतिनिह्नवे परोक्षा । ५. २११. ॥
कृतस्यापि व्यापारस्य चित्तव्याक्षेपादिनाऽस्मरणेऽत्यन्तापह्नवे वा गम्यमाने भूतेऽनद्यतनेऽर्थे वर्तमानाद् धातोः परोक्षाविभक्तिर्भवति, अपरोक्षकालार्थ प्रारम्भः ।
सुप्तोऽहं किल विललाप, मत्तोऽहं किल विचचार, चिन्तयन् किलाहं शिरः कम्पयांबभूव अङ्गुलिस्फोटयामास । अतिनिह्नवे-कश्चित् केनचिदुक्तः कलिङ्गेषु त्वया ब्राह्मणो हतः, स तदपह्नवान आह- कः कलिङ्गान् जगाम को ब्राह्मणं ददर्श, नाहं कलिङ्गान् जगाम, इत्यत्यन्तमपह्न ुते । प्रतिग्रहणादेकदेशापह्नवे ह्यस्तन्येव न कलिङ्गषु ब्राह्मणमह - महनम् ।। ११ ।।
परोक्षे ॥ ५. २. १२ ॥
1
अक्षाणां पर:- परोक्षः, अत एव निर्देशात् साधुः, प्रव्युत्पन्नो वा असाक्षात्कारार्थः, भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोः परोक्षा विभक्तिर्भवति । यद्यपि साध्यत्वेनानिष्पन्नत्वात् सर्वोऽपि धात्वर्थ: परोक्षस्तथापि प्रत्यक्षसाधनत्वेन तत्र लोकस्य प्रत्यक्षत्वाभिमानोsस्ति, यत्र स नास्ति स परोक्षः ।
जघान कंसं वासुदेवः, भरतं विजिग्ये बाहुबली, धर्म दिदेश तीर्थंकरः ॥ १२ ॥