SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १६६ ] बृहवृत्ति-लघुन्याससंवलिते [ पाद-३, सूत्र-९८-१०३ न्तलोपविधानाव्यञ्जनादौ लब्धे व्यञ्जनग्रहणं साक्षाव्यञ्जनप्रतिपत्यर्थम् , तेन क्विब्लुकि स्थानिवद्भावेनापि न भवति,-शंस्थाः पुमान् ॥१७॥ न्या० स०- ईय॑जने०-हाङो न भवतीति-'हाकः' ४-२-१०० इति भणनात् । शंस्था इति-शं सुखं तत्र तिष्ठति 'शमो नाम्न्यः' ५-१-१३४ इति अप्रत्ययापवादे 'स्थापास्ना' ५-१-१४२ इति के प्राप्तेऽसरूपत्वात् क्विप् , शंस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीच्छन्त्येके, तथा च जयकुमार: 'पां पाने' इत्यस्य क्विपि पीरित्याह । घ्राध्मोर्यङि ॥ ४. ३.१८॥ घ्राध्मोर्यडि परे ईकारोऽन्तादेशो भवति । जेघ्रीयते, देध्मीयते । यडीति किम् ? घ्रायते, ध्मायते, यङ्लुपि,-जानोतः, दाध्मीतः । अन्ये तु यङ्लुप्यपीच्छन्ति-जेघ्रोतः, देध्मीतः ॥८॥ हनो नीर्वधे ।। ४. ३. ११ ॥ हन्तेर्वधे हिंसायां वर्तमानस्य यङि नी इत्यादेशो भवति । जेनीयते, द्विषो जेनीयिषीष्ट वः । वधे इति किम् ? गतौ-जंघन्यते, केचिदिमं विकल्पेनाः, त्वं तु राजन् चटकमपि न जंघन्यसे । दीर्घनिर्देशात् यङ्लुप्यपि-जेनीतः, नेच्छन्त्यन्ये जंघत इति भवति ॥१९॥ ___न्या० स०-हनो०-यङ्लुप्यपीति-यदि पूर्वसूत्रवत् यङयेव स्यात्तदा निरित्येव कुर्याद्दीर्घसिद्धावित्यर्थः । . णिति घात् ।। ४. ३. १००॥ मिति प्रत्यये परे हन्तोर्घात इत्ययमादेशो भवति । घातः, घातयति, घातकः, साधुघाती, घातंघातम् । गितीति किम् ? हतः ॥१०॥ जिणवि घन ॥ ४. ३. १०१॥ औ णवि च प्रत्यये परे हन्तेर्घन् इत्ययमादेशो भवति । अघानि, जघान, अहं जघन, अहं जघान ।।१०१॥ न्या० स०-मिणवि०-'अङ हिहनः' ४-१-३४ इति सिद्धौ णवग्रहणं घात्बाधनार्थम् । नशेर्नेश वाङि ॥ ४. ३. १०२॥ नशेरङि परे नेश इत्ययमादेशो वा भवति । अनेशद, अनशन , अनेशताम् , अनशताम् , अनेशन् , अनशन , अनेशम् , अनशम् । अङीति किम् ? नश्यति ॥१०२।। श्वयत्यसूवचपतः श्वास्थवोचपप्तम् ॥ ४. ३. १०३ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy