SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-९५-९७ ] श्रीसिद्धहेमचन्द्रंशब्दानुशासत्रे चतुर्थोऽध्यायः [ १६५ विडत्यशिति स्वरे इटि एकारे पुसि च परे आकारान्तस्य धातोरन्तस्य लुग भवति । पपतुः, पपुः, ङिव-अदधत . आह्वद , संस्था, प्रपा। इट् पपिथ, तस्थिथ, यङ्लुपि,-दादि. तुम् , दादितव्यम् , एव व्यतिरे, व्यतिले पुस् ,- उदगुः, प्रदुः। अयुः, अरु:, अलुः । विडतीत्येव,-दानम् , ददौ । अशितीत्येव,-यान्ति, वान्ति, व्यत्यरे व्यत्यले । स्वर इत्येव,-ग्लायते । प्रक्ङिदर्थ शिदथं चेडादिग्रहणम् ।।४।। न्या० स० इडेत पुसि०-प्रपेति-प्रपोयत इति 'उपसर्गादातः' ५-३-११० इत्यङ, यदा तु प्रपिबन्त्यस्यामिति वाक्ये स्थादिभ्यः कस्तदा किद्वारमेव । संयोगादेशिष्येः ॥ ४. ३. १५ ॥ धातोः संयोगादेराकारान्तस्य विडत्याशिषि परेऽन्तस्यैकारावेशो वा भवति । ग्लेयात. ग्लायात. म्लेयात, मलायात । अपच्छायादित्यत्र त छकारस्य द्वित्वे सति संयोगा दित्वस्य लाक्षणिकत्वान्न भवति । संयोगादेरिति किम् ? यायात् । धातोरित्येव,-निर्यायात् । विडतीत्येव,-ग्लासीष्ट । आशिषीति किम् ? ग्लानः, म्लानः ॥९५।। गा-पा-स्था-सा-दा-मा-हाकः ॥ ४.३.१६॥ एषामन्तस्य विङत्याशिष्येकारो भवति । गै-गेयात् , गास्थोर्मध्ये पाठाद् भौवादिकयोः 'पं पा' इत्येतयोः पाशब्देन प्रहणम्-पेयात् , पै इत्यस्य नेच्छन्त्यन्ये । आदादिकस्य पायात् । स्था-स्थेयात् , सों से वा-अवसेयात् , मैं क्षये इत्यस्य नेच्छन्त्यन्ये । वासंज्ञ,देयात् , धेयात् , मांक मेयात् , हांक-हेयात् , हाकः ककारो यङ्लुनिवृत्यर्थः । जहायात् । शेषाणां यङ्लुप्यपि भवति-जागेयात् , पापेयात् , तास्थयात् , अवसासेयात् , दादेयात् , दाधेयात् , मामेयात् । एषामिति किम् ? यायात् । विङतीत्येव,-गासीष्ट, पासीष्ट ॥९६।। न्या० स०-गापास्था०-गाङ मेंङमाडां यङलुबन्तानां ग्रह , अन्यथामीषामात्मनेपदित्वात् किदाशीर्न संभवति । नेच्छन्त्यन्ये इति-लाक्षणिकत्वादिति शेषः । ईर्व्यञ्जनेऽयपि ॥ ४, ३. १७॥ गादीनामन्तस्य यपूजिते विडत्यशिति व्यञ्जनादौ प्रत्यये परे ईर्भवति । - गाङ् वा-गीयते, जेगीयते, गीतः, गोतवान् , गीत्वा, गाङो नेच्छन्त्यन्ये । पा-पीयते, पेपोयते, पीतः, पीतवान् , पीत्वा, स्था-स्थीयते तेष्ठीयते, सो-सीयते, सेषीयते, सैं-सीयते, सेसीयते, अषोपदेशत्वान्न षत्वम् , दासंज्ञ-दीयते, देवीयते, धीयते, देधीयते, धोतः, धीतवान् , धीत्वा स्तनम, माइति मामाङमेकां त्रयाणां ग्रहणम् मीयते, मेमीयते, मातेनेच्छन्त्यन्ये। मायते, मामायते । एवं पूर्वसूत्रेऽपि-मायाव, हांक-हीयते, जेहीयते हीनः, हीनवान् , हाङो न भवति-हायते, जाहायते । व्यञ्जन इति किम् ? तस्थतुः, तस्थुः। अशितीत्येव,- माहि । विडतीत्येव,-गाता, दाता । अयपीति किम् ? प्रगाय, प्रपाय, प्रस्थाय, प्रदाय, प्रधाय, प्रमाय, प्रहाय । कथमापीय ? पोडो भविष्यति, स्वरादाव
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy