SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २३२ संगीतरत्नाकरः अभ्येत्याथेत्थमन्याङ्गं यत्र तत्स्खलितं मतम् ।। ७१६ ॥ इति स्खलितम् (८८) कृत्वालातां पुरोऽङ्घ्रि चेद् द्रुतं न्यस्य चपेटवत् । कृतो हस्तस्तथान्याङ्गं सिंहविक्रीडितं तदा ।। ७१७ ॥ एतद्रौद्रगतौ योज्यं ब्रूते श्रीकरणाग्रणीः । इति सिंहविक्रीडितम् (८९) वृश्चिकोऽङ्घ्रिः पद्मकोशौ वोर्णनाभौ यदा करौ ॥ ७१८ ॥ अन्याङ्घ्रौ वृश्चिके पाञ्चौ भङ्क्त्वा तौ तादृशौ पुनः । कृतौ सिंहाभिनयने सिंहाकर्षितकं तदा ।। ७१९ ।। इति सिंहाकर्षितम् (९०) ; अङ्घ्रिणा गमनागमने हंसपक्षाख्यः करः चरणानुगतो भवति तदा स्खलिताख्यं करणं भवति ॥ ७१६ ॥ इति स्खलितम् (८८) (सु० ) सिंहविक्रीडितं लक्षयति-- कृत्वेति । यत्र अलाताख्यां चा कृत्वा, अङ्घ्रिः पुरःप्रदेशे द्रुतं न्यस्यते, हस्तः चपेटाकारः कृतो भवति ; तथा अन्याङ्गमप्येवं क्रियते, तत्र सिंहविक्रीडिताख्यं करणं भवति । तच्च रौद्रगतौ योज्यम् ॥ ७१७, ७१७- ॥ इति सिंहविक्रीडितम् (८९) (सु० ) सिंहाकर्षितं लक्षयति- वृश्चिक इति । यत्र वृश्चिकाख्यश्चरणः, करौ पद्मकोशौ ऊर्णनाभौ वा भवतः । अन्या‌ङ्घ्रौ वृश्चिके सति, पूर्वकृतौ करो भङ्क्त्वा, पुनस्तादृशावेव करौ क्रियेते; तदा सिंहाकर्षिताख्यं करणं भवति । तच सिंहाभिनयने प्रयोज्यम् ॥ - ७१८, ७१९ ॥ इति सिंहाकर्षितम् (९०) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy