SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २३३ सप्तमो नर्तनाध्यायः विधाय जनितां चारी यद्यरालालपल्लवौ । ललाटवक्षःक्षेत्रस्थौ हस्तावभिमुखागुली ॥ ७२० ॥ क्रमात्कृत्वोद्वेष्टितेन व्यावृत्त्या पार्श्वगौ ततः । वाक्षोदेशेऽपवेप्टेन परिवृत्या च तादृशौ ।। ७२१ ॥ मिथोमुखौ निधीयेते तदा स्यादवहित्थकम् । गोपनप्रायवाक्यार्थाभिनये तन्नियुज्यते ।। ७२२ ॥ अन्येऽवहित्थहस्तेन युक्तत्वादवहित्थकम् । वदन्ति चिन्तादौर्बल्यप्रभृत्यभिनयक्षमम् ॥ ७२३ ॥ ___ इत्यवहिस्थकम् (९१) यत्र वक्षसि निर्भुग्ने निहितौ खटकामुखौ। मण्डलस्थानकं तत्तु निवेशं गजवाहने ॥ ७२४ ॥ इति निवेशम् (९२) (सु०) अवहित्थकं लक्षयति---विधायेति । यत्र जनितां चरी कृत्वा, हस्तो अरालालपल्लवतामेत्य, अभिमुखागुलीभूय, ललाटवक्ष:क्षेत्रस्थौ कमात् भवतः । तत उद्वेष्टितव्यावृत्तिभ्यां पार्श्वमागम्य, अपवेष्टितपरिवृत्तिभ्यां पार्श्वमागम्य, अपवेष्टितपरिवृत्तिभ्यां वक्षःस्थले तादृशावेव मिथोमुखौ क्रियेते; तत् अवहित्थकाख्यं करणं भवति । तच्च गोपनप्रायवाक्यार्थाभिनये कार्यम् । अन्ये तु अवहित्थहस्तयुक्तमाहुः । तच्च चिन्तादौर्बल्यप्रभृतावपि कार्यमाहुः॥ ॥ ७२०-७२३ ॥ इत्यवहित्यकम् (९१) (सु०) निवेशं लक्षयति-यत्रेति । यत्र निर्भुग्ने वक्षःस्थले खटकामुखौ हस्तौ निधीयेते, मण्डलस्थानकं च यत्र क्रियते ; तत् निवेशाख्यं करणं भवति । तच्च गजवाहने कार्यम् ॥ ७२४ ॥ इति निवेशम् (५२) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy