SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २२० संगीतरत्नाकरः सुराणां वरिवस्यायां तदुद्धतपरिक्रमे । इति चकमण्डलम् (५५) चार्यौ बद्धास्थितावर्ते उरोमण्डलिनौ करौ ।। ६७२ ।। यत्रोरोमण्डलं तत्तु शिववल्लभभाषितम् । इत्युरोमण्डलम् (५६) उद्वेष्टेनापवेष्टेन यत्र डोलाभिधौ करौ ।। ६७३ ।। चारी चाषगतिस्तत्स्यादावर्त भयसर्पणे । इत्यावर्तम् (५७) उत्तानो वामपार्श्वस्थोऽलपद्मो दक्षिणः करः ।। ६७४ ।। चारों विधाय डोलरूपाभ्यां हस्ताभ्यां मध्ये नतं प्राप्तेन गात्रेण शरीरेण यत्र भ्रमणं कुर्यात्, तत् चक्रमण्डलाख्यं करणम् ऊचुः अवादिषुः । तच्च देवानां वरिवस्यायां उद्धतपरिक्रमे च प्रयोज्यम् ॥ ६७१, ६७१-॥ इति चक्रमण्डलम् (५५) (सु० ) उरोमण्डलं लक्षयति - चार्याविति । बद्धाख्यां स्थितावर्ताख्यां च चारों कृत्वा, उरोमण्डलिनौ करौ यत्र क्रियेते; तत् उरोमण्डलाख्यं करणं भवति ॥ - ६७२, ६७२ - ॥ इत्युरोमण्डलम् (५६) (सु० ) आवर्त लक्षयति — उद्वेष्टेति । यत्र उद्वेष्टनापवेष्टनाभ्यां हस्तौ डोलायितौ भवतः । ततः चारी च चाषगति:; तत् आवर्ताख्यं करण भवति । तच्च भयसर्पणे प्रयोज्यम् ॥ ६७३, ६७३-॥ इत्यार्वतम् (५७) (सु० ) कुञ्चितं लक्षयति- - उत्तान इति । यत्र दक्षिणहस्तः वामपार्श्वे Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy