SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः २२१ यत्र तत्कुश्चितं पादे सव्येऽग्रतलसंचरे । तेन देवानभिनयेल्सदानन्दनिर्भरान् ॥ ६७५ ॥ इति कुश्चितम् (५८) ऊर्ध्वजानोः परं चारी डोलापादा यदा भवेत् । डोलौ हस्तौ तदा प्रोक्तं डोलापादं विदांवरैः ॥ ६७६ ॥ इति डोलापादम् (५९) पादमाक्षिप्तया चार्याक्षिप्याक्षिप्य करावपि । व्यावृत्तिपरिवृत्तिभ्यां कृत्वा भ्रमरिकां करौ ।। ६७७ ॥ रेचितौ चेद्विवृत्तं स्यात्तच्चोद्धतपरिक्रमे । इति विवृत्तम् (६०) अलपमतां धत्ते, सत्यपादश्च अग्रतलसंचारो भवति । तत्र कुञ्चिताख्यं करणं भवति । तच्च आनन्दनिर्भरेण देवाभिनये प्रयोज्यम् ॥ -६७४, ६७५ ॥ . इति कुच्चितम् (५८) ___(सु०) डोलापादं लक्षयति-ऊर्ध्वजानोरिति । यत्र ऊर्ध्वजानुसंज्ञिको चारी कृत्वा, अनन्तरं डोलापादाख्या चारी क्रियते ; हस्तौ च डोलारूपौ क्रियेते; तदा डोलापादाख्यं करणं भवति ॥ ६७६ ॥ इति डोलापादम् (५९) (सु०) विवृत्तं लक्षयति-पादमिति । यत्र आक्षिप्ताख्यया चार्या, उपलक्षितपादमाक्षिप्य, हस्तावपि व्यावृत्तिपरिवृत्तिभ्यां भ्रमरिकाकारौ कृत्वा यदा रेचितौ भवतः ; तदा विवृत्ताख्यं करणं भवति । तच्च उद्धतपरिक्रमे प्रयोज्यम् ॥ ६७७, ६७७- ॥ इति विवृत्तम् (६०) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy