SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः संहतं कुश्चितं चार्धकुश्चितं नतमुन्नतम् ।। ३७२ ॥ विवृतं सममित्यूचे जानु सप्तविधं बुधैः । श्लिष्टान्यज्जानु जानूक्तं हीरोषासु संहतम् ॥ ३७३ ॥ ___ इति संहतम् (१) जानु लग्नोरुजचं तु भवेत्कुञ्चितमासने । इति कुञ्चितम् (२) नितम्बनमनाजानु त्वर्धकुञ्चितमुच्यते ॥ ३७४ ।। इत्यर्धकुञ्चितम् (३) महीगतं नतं जानु मतं पाते नमस्कृतौ । इति नतम (४) (सु०) अथ जानुभेदानाह–संहतमिति । संहतम् , कुश्चितम् , अर्धकुञ्चितम् , नतम् , उन्नतम् , विवृतम् , सममिति सप्तविधं जानु । तेषां सप्तानां भेदानां क्रमाल्लक्षणमाह-श्लिष्टेति । श्लिष्टं सङ्गतम् , अन्यजानु येन, ताथाविधं जानु संहतमित्युच्यते । तच्च ह्रीरोषासु प्रयोज्यम् ॥ -३७२, ३७३ ॥ ___ इति संहतम् (१) (मु०) कुञ्चितं लक्षयति-जान्विति । लग्ने सङ्गते ऊरूजो यस्मिन् , तथाविधं जानु कुञ्चितमित्युच्यते । तच्च आसने प्रयोज्यम् ॥ ३७३- ॥ इति कुच्चितम् (२) (सु०) अर्धकुञ्चितं लक्षयति-नितम्बेति । नितम्बे नमनात् जानु अर्धकुञ्चितमित्युच्यते ॥ -३७४ ॥ ___ इत्यर्धकुञ्चितम् (३) (सु०) नतं लक्षयति-महीगतमिति । महीगतं जानु नतमित्युच्यते । तच्च पाते, नमस्कृतौ च प्रयोज्यम् ॥ ३७४- ॥ इति नतम् (४) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy