SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १२९ सप्तमो नर्तनाध्याय: निःसृता च परावृत्ता तिरथीना बहिर्मता । कम्पितेत्यपराः पञ्च जङ्घाः संचक्षते परे ॥ ३६२ ॥ वामे दक्षिणतः पादे दक्षिणे वामतः कृते । मुहुरावर्तिता प्रोक्ता विदूषकपरिक्रमे ॥ ३६३ ॥ ____ इत्यावर्तिता (१) नमज्जानुर्नता जवा स्थानासनगतादिषु । __ इति नता (२) बहिर्विक्षेपतः क्षिप्ता व्यायामे ताण्डवे च सा ॥ ३६४ ॥ इति क्षिप्ता (३) ऊर्ध्व नीतोद्वाहिता स्यादाविष्टगमनादिषु । ___ इत्युद्वाहिता (४) उद्वाहिता, परिवर्तितेति शार्ङ्गदेवमतेन जङ्घा पञ्चधा। निःसृता, परावृत्ता, तिरश्चीना, बहिर्गता, कम्पितेति परे आचार्याः पञ्चधा आहुः । एवं जङ्घाभेदा दशधा । तेषां क्रमेण लक्षणमाह-वाम इति । मुहुर्मुहुः वामे दक्षिणपादे, दक्षिणे वामपादे च कृते सति आवर्तिताख्या जङ्घा । सा विदूषकपरिक्रमे प्रयोज्या ॥ ३६१-३६३- ॥ __ इत्यावर्तिता (१) (सु०) नतां लक्षयति-नमदिति । नमज्जानुर्जङ्घा नता। सा च स्थानासनगतादिषु प्रयोज्या ॥ ३६३- ॥ ___ इति नता (२) (सु०) क्षिप्तां लक्षयति-बहिरिति । बहिः जङ्घाया विक्षेपात् क्षिप्ता | सा च व्यायामे, ताण्डवे च प्रयोज्या ॥ -३६४ ॥ ___ इति क्षिप्ता (३) (सु०) उद्वाहितां लक्षयति-ऊर्ध्वमिति । ऊर्ध्वं नीता जङ्घा उद्वाहिता। सा च कुपितगमनादिषु प्रयोज्या ॥ ३६४-॥ इत्युद्वाहिता (४) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy