SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १२८ संगीतरत्नाकरः स्तब्धस्तु निष्क्रियः स स्याद्विषादे साध्वसे तथा । ___ इति स्तब्धः (३) पाणेरन्तर्बहिःक्षेपात्क्षेपादग्रतलस्य च ३५९ ॥ मुहुरुद्वर्तितः स स्याद्वयायामे ताण्डवे तथा । इत्युद्वर्तितः (४) निवर्तितोऽन्तर्गतया पार्ष्या स्यात्संभ्रमे श्रमे ।। ३६० ॥ इति निवर्तितः (५) इति पञ्चधोरुः । आवर्तिता नताक्षिप्तोद्वाहिता परिवर्तिता । इति पञ्चविधा जङ्घा शाहूदेवेन कीर्तिता ।। ३६१ ।। (सु०) स्तब्धं लक्षयति-स्तब्धस्त्विति । निष्क्रियः क्रियाहीन: स्तब्धः । सः विषादे तथा साध्वसे च विनियोगः ॥ ३५८-॥ इति स्तब्धः (1) (सु०) उद्वर्तितं लक्षयति-पाणेरिति । पाणैः अग्रतलस्य, पादाग्रतलस्य च क्षेपात् मुहुर्मुहुरन्तर्बहिःक्षेपात् उद्वर्तितः । स च व्यायामे, ताण्डवे कार्यः ॥ -३५९, ३६९-॥ इत्युद्वर्तितः (४) __ (सु०) निवर्तितं लक्षयति-निवर्तित इति । पाणिद्वये अन्तर्गते सति निवर्तितः । स च संभ्रमे, श्रमे च कार्यः ॥ -३६० ॥ इति निवर्तितः (५) इति पञ्चधा ऊरुः। इत्यूरुप्रकरणम् । (सु०) अथ जडाभेदानाह-आवर्तितेति । आवर्तिता, नता, क्षिप्ता, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy