SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४०९ षष्ठो वाद्याध्यायः लोलो व्यवहिताङ्गुष्ठो दक्षिणो यस्य साधकः । वामश्चोच्छलितो हस्तमुल्लोलं तं प्रचक्षते ॥ ८७१॥ अङ्गुष्ठमध्यमन्येऽत्र ब्रुवते दक्षिणं करम् । पुटमध्ये दक्षिणेन साङ्गुष्ठेन हतिं परे ।। ८७२ ॥ झेयां झेंथां थांथां झें । इति लोलः (१) व्यङ्गुष्ठो दक्षिणो हस्तः पुटे चेन्मुहुरुल्लसेत् । खपुटं पीडयेद्वामस्तदा पाण्यन्तरो भवेत् ॥ ८७३ ॥ विश्लिष्टाङ्गुलिसंचारमगुष्ठार्धाधताडनम् । पाण्यन्तरस्य जनकं केचिदाचक्षते बुधाः ॥ ८७४ ॥ संज्ञको द्वौ करौ एकं पुटं हत्वा नृत्ताध्याये वक्ष्यमाणस्वस्तिकावन्ते भवेताम् , इति स्वस्तिकः (२०) करतलाभ्यां समकालं पुटे हन्यमाने समग्रहः (२१) इह केचित् अगुष्ठाङ्गुलिवर्जितं तलमाहुः ॥ ८५५-८७० ॥ इत्येकविंशतिहस्तपाटा: (क०) अथ प्रायिकहौडुक्कान् षोडश हस्तापाटान् दर्शयति-लोलो व्यवहिताङ्गुष्ठ इत्यादि ॥ ८७१-८८६ ॥ (सु०) षोडश प्रायिकहौडुक्कपाटान् लक्षयति-लोल इति । दक्षिणो हस्तो व्यवहिताङ्गुष्ठः, वामहस्तश्चोच्छलितः, यस्य साधकः यं साधयति स लोलः । अन्ये त्वाचार्याः अङ्गुष्ठो मध्यस्थो यस्य तथाविधं दक्षिणहस्तमाहुः । केचिदङ्गुष्ठसहितेन दक्षिणहस्तेन हतिमाघातमाहु: (१) अङ्गुष्ठेन विना दक्षिणो हस्तः पुटमध्ये पुनरुल्लासं प्राप्नोति, वामहस्तश्च स्वपुटं पीडयति चेत्, तदा पाण्यन्तरः । केचिद् विरलागुलिसंचारो यस्मिन् , तथा विश्लिष्टाश 52 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy