SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३८६ संगीतरत्नाकरः ग्रहं द्विगुणसं कृत्वाधस्तनं स्थायिनं तया ॥ ७७७ ॥ कृत्वा द्वितीयतुर्यों च द्वितीयस्थायिनौ स्पृशेत् । विलम्बिते द्वितीयेऽथ स्थायिनि न्यस्यते यदा ।। ७७८ ।। श्रीरागस्य बुधैः प्रोक्तं तदा स्वस्थानमादिमम् । खरो वंशे द्वितीयोऽस्य ग्रहत्वेनोपलक्षितः ॥ ७७९ ॥ इति श्रीरागः यो ग्रहः क्रियते वंशे तमपेक्ष्यात्र योजयेत् । लक्षणस्थं द्वितीयादि यदा किंतु ग्रहादयः ॥ ७८० ॥ यावन्तो यत्र रागे स्युः स्वरा लक्ष्मणि तावताम् ।। संभवः स्थायिना येन स्थायिनं तत्र तं श्रयेत् ॥ ७८१ ॥ अनुग्रहाय मुग्धानामित्येते कतिचिन्मया । रागाः प्रोक्ताः पथानेन संपश्यध्वं बुधाः परान् ।। ७८२ ।। इति वंशप्रकरणम (सु०) अथ श्रीरागमाह-प्रहमिति । द्विगुणं षड्ज प्रहं विधाय तदधस्तनं च गीत्वा, द्वितीयतुर्यों द्विरुच्चार्य द्वितीयस्थायिना स्पृष्टा विलम्बितद्वितीयानन्तरं स्थायिनि न्यासे श्रीरागस्य प्रथमं स्वस्थानम् ॥ -७७७-७७९ ॥ इति श्रीरागः (क०) अथ सकलरागसाधारणन्यायं दर्शयति-यो ग्रह इति । तत्र विशेषमाह-कित्विति । यत्र यम्मिन् रागे ग्रहादयः स्वरा यावन्तः स्युः । लक्ष्मणि तद्रागलक्षणे येन स्थायिना तावतां स्वराणां संभवस्तत्र रागे तं स्थायिनं श्रयेदिति । अयमर्थः-- यस्य देशीरागस्य मन्द्रतारावधित्वेन यौ स्वरौ भवतः, तन्मध्यस्थाः स्वरास्ताभ्यां सह यावत्संख्या ये भवन्ति, तेषां Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy