SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः पावो वेणुसमुत्पन्नः स्यान्नवागुलवंशवत् । कृतावेष्टो वंशपत्रैकरीत्यैष वाद्यते ।। ७८३ ॥ इति पावलक्षणम् ३८७ पाविका वैणत्री कार्या द्वादशाङ्गुलदैर्घ्यभाक् । स्थौल्येऽङ्गुष्ठमिता गर्भे स्वदैध्ये सुषिरं श्रिता ॥ ७८४ ॥ न्यूनता यथा न भवति तथा स्थायिस्वरो ग्रहः कर्तव्य इति प्रयोजनवत्त्वेनोक्तमन्यत्राप्यतिदिशन् प्रकरणमुपसंहरति - अनुग्रहायेति ॥ ७८०-७८२ ॥ इति वंशप्रकरणम (सु० ) यो मह इति । वंशे यः महत्वेन परिकल्प्यते तदपेक्षया द्वितीयादिपदं योजनीयम् । अयं तु विशेषः -- प्रहादधः स्थितस्वरा यावन्त उच्चारणीयत्वेनोक्ताः, यस्मिन् स्थायिनि कृते सति यत्र तावतां संभवः स स्थायिनमाश्रयेत् । अनुप्रहायेति । अज्ञानामनुकम्पया केचिद्रागा मया प्रोक्ताः । अनेन पथा मार्गेण हे बुधाः परान् रागान् प्रति संपश्यध्वं विचारयन्तु । मत्रावश्यं प्रतिरध्याहर्तव्यः । अन्यथा सकर्मकेऽस्य संपूर्वकस्य दृशेरात्मनेपदत्वं न सिध्यति ॥ ७८०-७८२ ॥ इति वंशप्रकणरम् (क) पावादीनां लक्षणानि प्रन्थत एव सुबोधानि ॥ ७८३-८०४॥ (सु० ) पावं लक्षयति - पाव इति । वेणुकृतो नवाङ्गुलपरिमितः वैशपत्रिकाभिरावेष्टितः पावः । एष लोकानां रीत्या वादनीयः ॥ ७८३ ॥ इति पावलक्षणम् (सु०) पाविकाया लक्ष्णमाह- पाविकेति । वेणुमयी द्वादशाङ्गुलदीर्वा मङ्गुष्ठस्थूला गर्भे स्वदैर्घ्यं कनिष्ठाप्रप्रमाणं रन्ध्रमाश्रिता पाविका कार्या । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy