________________
संगीतरत्नाकरः सोपोहना सुनन्दादौ संगते द्वे ततः परे । मध्यमासारिते ताले स्यात्तदाभासकं तदा ॥ २१३ ॥
SSSSSSSSSSS SS SS SSS अस्य प्रस्तारः-शानता निशताप्रनिस निप्रताश निता निशता
प्रनिर्स, नितीश निता निशती प्रनिर्स, आदौ सप्तकलमुपोहनम् ।।
इति मध्यमासारिताभासं वर्धमानम् अस्य; लयान्तराभासवर्धमानस्य प्रस्तारं पूर्ववर्धमानवदेव लिवेत् । आदावुपोहनं प्राग्वत् । ताललयमार्गद्वैगुण्यं चात्र विशेषः ।।
इति लयान्तराभासं वर्धमानम् (क०) मध्यमासारितामाभासमाह-सोपोहनेत्यादि । आदौ प्रथमं सोपोहना सप्तकलात्मकोपोहनसहिता सुनन्दा षोडशकलात्मिका । ततः परं द्वे संगते प्रत्येकमष्टकलात्मिके भवतः । एवं द्वात्रिंशत्कला भवन्ति । मध्यमासारिते ताल इत्यनेनान्ते संनिपातयुक्तका कलाधिका कर्तव्या । अन्यथा तस्य तालस्यापरिपूर्णता स्यात् । तेनात्र त्रयस्त्रिंशत्कला भवन्ति । तदाभासकमिति । मध्यमासारिताभासकं वर्धमानमित्यर्थः ॥ २१३ ॥
(सु०) सोपोहनेति । उपोहनसहिता सुनन्दा आदौ गेया । ततोऽनन्तरं संगता, आद्या विशाला च यदा मध्यमासारितस्थस्तालः तदा मध्यमासारितं वर्धमानम् ॥ २१३ ॥
इति मध्यमासारिताभासं वर्धमानम् (क०) अस्य ; मध्यमासारिताभासस्य प्रस्तारं मध्यमासारितप्रस्तारवल्लिग्वेत् । आदौ सप्तकलमुपोहनं प्राग्वत् ॥
इति मध्यमासारिताभासं वर्धमानम्
Scanned by Gitarth Ganga Research Institute