________________
द्वितीयो रागविवेकाध्यायः काकल्यन्तरयुक्तश्च मध्यमादिकमूर्छनः । अवरोह्यादिवर्णेन प्रसन्नान्तेन भूषितः ।। ७५ ॥ पूर्वरङ्गे प्रयोक्तव्यो हास्यशृङ्गारदीपकः। शुक्रप्रियः पूर्वयामे तोडिका स्यात्तदुद्भवा ।। ७६ ॥
मां सारी नीधा साधानी माधा सारीगां धां सां धांमांरिगामां माधामारी गारीनीधा सांधानीमांमांइत्यालापः।
ममरिग मम सस धनि सस धनि मां मां पपपपनि धममध घससरि गांगामांरिगामांमां-इति करणम् ।
साधनि पध मारि मानि धधाधधससरि मासासाधनी धपमां मां गारी गारी गासामाधामां गांरीगा गमारिगा सांसाधनी मां धनि धगसाधनि मां मामां-इति वर्तनिका।
शुद्धावस्थां परित्यज्य विकृतावस्थापन्ना मध्यमा विकारिमध्यमा ; तस्यामुद्भतः । अवरोह्यादिवणेनेति । अत्रादिशब्देन वर्णोद्देशक्रमविवक्षया संचारी वर्ण एव गृह्यते । अवरोह्यादी वर्णी यस्येति बहुव्रीहिः; प्रसन्नान्तस्य विशेषणम् । अवरोहिसंचारिवर्णयुक्तेन प्रसन्नान्तेनेत्यर्थः ॥ ७४-७६ ॥
(सं.) षाडवं लक्षयति-विकारीति । गपदुर्बलो गान्धारपञ्चमहीनः । अस्य च व्युत्पत्ति: कथिता मतङ्गेन-" षट्सु रागेषु मुख्यत्वात् षाडवः, सप्तस्वरत्वेन षट्स्वरत्वासंभवात् । ननु कथं षट्सु रागेषु मुख्योऽयम् ? उच्यते - 'पूर्वरङ्गे तु शुद्धषाडवः प्रयोक्तव्यः' इति वचनात्" इति ॥ ७४-७६ ॥
Scanned by Gitarth Ganga Research Institute