SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ૬૮ संगीतरत्नाकर: ८. सांसां सांसां सां सा सा सा ग ह रं नां — इत्याक्षिप्तिका । इति मालवकैशिकः । [ प्रकरणम् मालवश्रीः समस्वरा तारमन्द्रषड्जांशन्यासषड्ज भाक् ।।७३|| इति मालवश्रीः । षाडवः विकारिमध्यमोद्भूतः पाडवो गपदुर्बलः । न्यासांशमध्यमस्तारमध्यमग्रहसंयुतः ॥ ७४ ॥ (क०) मालवश्रीलक्षणे – समस्वरेति । समाः स्वरा यस्यां सा समस्वरा । स्वराणां समत्वमत्राल्पत्वबहुत्वकृतवैषम्यरहितत्वं विवक्षितम् । तेनास्यां षड्जस्यांशत्वेऽपि तदितरेपामपि तत्समबलत्वेन प्रयोगे कृते रक्तिलाभ एव स्यात्, न रक्तिहानिरित्यर्थः । एवं सर्वत्र समस्वरता द्रष्टव्या । तारमन्द्रषड्जा ; तारमन्द्रयोः षड्जौ यस्यां सा तथोक्ता । एतेनास्यास्तारमन्द्रयोरवधिर्दर्शितो भवति । एतावद्विशेषलक्षणम् । अनुक्तमन्यज्जनकान्माल्व कैशिकादूह्यम् ॥ ७३ ॥ (सं०) मालवश्रियं लक्षयति- मालवश्रीरिति । समाः स्वरा यस्याम् । स्वराणां च समत्वं मन्द्रादिष्वेकस्थानोद्भवत्वम्, अल्पत्वबहुत्ववर्जितत्वं वा । तारमन्द्रषड्जेति । एतस्यां षड्जस्य मध्यमत्वं नास्ति ॥ ७३ ॥ (क०) तोडीजनकस्य षाडवस्य लक्षणे - विकारिमध्यमोद्भूत इति । मध्यमाया जातेः शुद्धभेद एकः ; विकृतभेदास्त्रयोविंशतिः । तत्र Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy