SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [प्रकरणम् अवरोहिप्रसन्नान्तालंकृतो रविदैवतः। वीरे रौद्रे रसे गेयः प्रहरे वासरादिमे ॥ २२ ॥ विनियुक्तो गर्भसंधौ शुद्धसाधारितो बुधैः । षड्जग्रहांशकः ; तारषड्जो ग्रहोंऽशश्च यस्येति बहुपदबहुव्रीहिः । अत्र रागेषु कचिद् ग्रहांशयोभिन्नत्वेन 'अन्यतरोक्तावुभयग्रहः' इति न्यायः सर्वत्र न प्रसरेदिति ग्रहांशयोरुभयोर्ग्रहणं कृतम् । अन्यतरोक्तावुभयग्रहन्यायस्तु जातिप्वेव नियतो द्रष्टव्यः ; रागलक्षणेष्वपि यत्रान्यतरस्यैवोक्तिस्तत्राप्यनुसंधेयः । निगाल्पो निगाभ्यामल्पः ; अल्पनिषादगान्धारवानित्यर्थः । षड्जादिमूर्छनः; षाड्जग्रामिकत्वादुत्तरमन्द्रायुत इति यावत् । अवरोहिप्रसन्नान्तालंकृतः; अवरोहिणि वणे प्रसन्नान्तालंकारेण भूषितः । गर्भसंधौ; नाटकेषु " मुखं प्रतिमुखं गर्भो विमर्श उपसंहतिः” इति पञ्च संधयः ; तेषु तृतीयो गर्भसंधिः; तमिन्विनियुक्तः ॥ २१-२२ ॥ (सं०) शुद्धसाधारितं . लक्षयति-षड्जमध्यमयेति । षड्जमध्यमाया जातेरुद्भूतः, तारस्थानस्थः षड्जो ग्रहोंऽशश्च यस्मिन् , निषादगान्धारावल्पौ यस्मिन् , षड्जादिद्र्छना यस्य, पूर्णः सप्तस्वरः, अवरोही यः प्रसन्नान्तोऽलंकारस्तेनालंकृतः, रवि: सूर्यो देवतास्य । अतश्चैतस्य गाने सूर्यस्य प्रीतिः फलम् । गर्भसंधौ विनियोगः । नन्वयं विनियोगविशेष: कस्माल्लभ्यते ? भरतवचनादेव ; यदाह भरत: "मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे तथा । गर्भ साधारितश्चैव ह्यवमर्शे तु पञ्चमः । संहारे कैशिकः प्रोक्तः पूर्वरङ्गे तु षाडवः ॥" इति ॥ २१-२२ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy